पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः क्षितिपालवल्लभा सुधाप्रवाहैः धौताम् इव देहकन्दलीम् उवाह । क्षमापतेः मानसं तु विषादपङ्कक्ष्यतः निरन्तरं प्रससाद् ।

                                 व्याख्या

क्षितिपालस्य भूपालस्य वल्लभा प्रिया राज्ञी सुधाया अमृतस्य प्रवाहैः संतानैर्धोतां प्रक्षालितामत एव श्वेतामिव देहकन्दलीं शरीरलतामुवाह धारितवती । क्षमापतेः पृथ्वीपतेः ‘विपुला गह्वरी धात्री गौरिला कुंभिनी क्षमा । भूतधात्री रत्नगर्भा जगती सागराम्बरा ।' इत्यमरः । मानसं मनस्तु विषादो दुःखं स एव पङ्कः कर्दमस्तस्य क्षयतो विनाशात् निरन्तरमजस्त्रं प्रससाद प्रसन्नतां समवाप । मानसं सरः पङ्कराहित्याद्यथा निर्मलजलेन प्रसन्नतां प्राप्नॊति तथैव नृपस्य मनो दुःखराहित्याद् गर्भचिन्हैः सुखं प्राप । अत्रोत्प्रेक्षारूपकश्लेषाणां संकरस्तेन शरदृतुवृत्तान्तः प्रतीयत इति वस्तुध्वनिः ।

                                    भाषा

रानी, अमृत से धोई हुई के समान श्वेत शरीर को धारण करने लगी अर्थात् रानी सफेद पड़ने लगी । राजा का मन दुःख रूपी कीचड़ का क्षय होने से निरन्तर प्रसन्न होने लगा। जिस प्रकार कीचड़ दूर होकर निर्मल जल रहने से मानस सरोवर प्रसन्न होता है वैसे ही राजा का मन दुःख दूरं होकर गर्भ के चिन्ह से निरन्तर प्रसन्न हुआ । निपीड्य चन्द्रं पयसे निवेशिता ध्रुवं तदीयस्तनकुम्भसुधाः । यदुत्पलश्यामलमाननं तयोः सलाच्छनच्छायमिव व्यराजत ॥६३॥