सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स हेमवृष्टिं महतीमकारयच्चकार चित्राण्युपयाचितानि च ।

     हरप्रसादोचितसूनुलालसश्चकार किं किं न नरेन्द्रचन्द्रमाः ॥६१॥
                  अन्वयः
    सः महतीं हेमवृष्टिं चित्राणि उपयाचितानि च चकार । हरप्रसादो–
  चितसूनुलालसः नरेन्द्रचन्द्रमाः किं किं न चकार ।
                 व्याख्या
    स राजा महतीं विशालां हेमवृष्टिं सुवर्णवृष्टि चित्राण्याश्चर्यकराण्युपया-
  चितानि स्वमनोरथसिद्धये स्वाभीष्टदेवतायै पूर्व संकल्पितानुपहारराँश्च चकार ।
 “दीयते यत्तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितकं दिव्यं दोहदं तद्वि-
 दुर्बुधाः” । स राजा याचकेभ्यः प्रचुरं सुवर्ण दत्तवान् देवेभ्यश्च स्वाभिलषित-
 सिद्धये पूर्वसंकल्पितानुपहारान् पूजनादिमिषेणार्पितवानिति भावः । हरस्य
 शिवस्य यः प्रसादः प्रसन्नता ‘प्रसादस्तु प्रसन्नता' इत्यमरः । तदुचितस्तदनुकूलो
 यः सूनुः पुत्रस्तस्मिन् लालसोत्कटकामना यस्य स ‘कामोऽभिलाषस्तर्षश्च सोऽत्यर्थ
 लालसा द्वयोः' इत्यमरः । नरेन्द्राणां राज्ञां तारकाणामिव मध्ये चन्द्रमाश्चन्द्र
 इवाऽऽल्हादको मनोहारी च स राजा किं किं समुचितं कार्य न चकार कृतवान् ।
 सर्वमेव तद्योग्यं समुचितं कार्य कृतवानित्यर्थः । अत्रार्थापत्यलङ्कारस्तेन सम्पदा-
 मुत्कर्षः प्रतीयते ।
                 भाषा
       उस राजा ने सुवर्ण की घोर वृष्टि की अर्थात् याचकों को खुब सूवर्णदान