पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमलोकनायकः सः दिवः उद्गतां अनन्यसामान्यतनूजशंसिनीं गिरं

          अजस्रं स्मरन् द्वितीयगर्भार्थं निर्भरं समुत्सुकः अभूत् ।
                    व्याख्या
       मध्यमशचासौ लोकश्च मध्यमलोको भूलोकस्तस्य नायको मध्यमलोकपालो
   भूपालः स राजाऽऽहवमल्लदेवो दिव आकाशादुद्गतां समागतां नाऽन्यः सामान्य–
   स्समानो यस्य स चाऽसौ तनूजः पुत्रश्च तं शंसति निवेदयतीति तां गिरं वाणीमजरुत्रं
   निरन्तरं ‘नित्यानवरताजस्रम्' इत्यमरः । स्मरन् द्वितीयगभर्थ द्वितीयगर्भकृते
   निर्भरमत्यन्तं समुत्सुक उत्कण्ठितोऽभूत् ।
                    भाषा
      वह भूलोक का राजा असाधारण व अलौकिक पुत्र प्राप्त होने की आकाश–
   वाणी को सदैव स्मरण करता हुआ, दूसरे गर्भ के लिये अत्यन्त उत्कण्ठित हुअा ।
 स्थितस्य गर्भे प्रभयेव कस्यचिद् विलिप्यमानां स्फटिकामलत्विषः ।
 स गण्डपालीं बिसदण्डपाण्डुरां ददर्श देव्याः पृथिवीपतिस्ततः ॥६०॥
                  अन्वयः
     ततः पृथिवीपतिः स्फटिकामलत्विषः गभे स्थितस्य कस्यचित् प्रभया
   इव विलिप्यमानां बिसदण्डपाण्डुरां देव्याः गण्डपालीं ददर्श ।
                  व्याख्या
    ततस्तदनन्तरं पृथिवीपती राजा स्फटिकस्याऽमला निर्मलात्विडिव प्रभेव
 ‘स्युः प्रभारुगुचिस्त्विड्भाभाच्छविद्युतिदीप्तयः’ इत्यमरः । त्विट् प्रभा यस्य
  स तस्य स्फटिकमणिसभानशुभ्रकान्तेर्गवभें उदराभ्यन्तरे स्थितस्य विद्यमानस्य कस्य-