पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रातःकाले या पूजाऽर्चनं तस्या अवसरे नभसि गगने चरतीति नभष्चरी तामाकाशगामिनीं भारतीं वाणीं ‘ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती इत्यमरः । आकाशवाणीमित्यर्थः । आकर्णयति स्म श्रुतवान् । भाषा इस प्रकार शंकर भगवान् को प्रसन्न करने में चिरकाल तक कठोर व्रत पालन करने वाले राजा ने किसी दिन सबेरे की पूजा के काल में आकाशवाणी सुनी । अलं चुलुक्यदितिपालमएङन-श्रमेण विश्राम्यतु कर्कशशंतपः । कमप्यपूर्वं त्वयि पार्वतीपतिः प्रसादमारोहति भक्तवत्सलः ॥५० ।। श्रयन्वयः हे चुलुक्यक्षितिपालमण्डन श्रमेण अलं, कर्कशां तपः विश्राम्यतु , भक्तवत्सलः पार्वतीपतिः त्वयि कम् अपि अपूर्व प्रसादम् आरोहति । व्याख्या हे चुलुक्यस्य चुलुक्यवंशस्य क्षितिपाला नृपास्तेषां मण्डनमाभूषणं तत्सम्बुद्धौ हे चुलुक्यवंशाक्षितिपालमण्डन ! राजन् ! श्रमेणाऽलमत्तः परं व्रतादिषु परिश्रमो न कर्तव्यः । कर्कशं कठिनं तपो नियमो विश्राम्यतु विश्रान्तिमेतु भक्तानां प्रपन्नानां वत्सलः स्निग्धः स्निग्धस्तु वत्सलः' इत्यमरः । पार्वत्याः पतिः शिवस्त्वय्यि त्वद्विषये कमप्यपूर्व कमप्यनिर्वचनीयं प्रसादं प्रसन्नतां कृपामारोहति करोति । भाषा हे चालुक्य वंशीय राजाओं के भूषण ! अब परिश्रम मत करो । कठोर ताप बन्द करो ! भक्तवत्सल शंकर ने तूम्हारे ऊपर एक अवर्णनीय कृपा की है ।