पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथाविधायाः सदृशं यदुन्नतेर्मतं यदौदार्यधनस्य चेतसः । तदद्रिकन्यादयितस्य पूजने जितेन्द्रियः कल्पयति स्म पार्थिवः ॥४८॥ अन्वयः जितेन्द्रियः पार्थिवः तथाविधायाः उन्नतेः यत् सदृशं, औौदार्यधनस्य यत् मतं तत् अद्रिकन्यादयितस्य पूजने कल्पयति स्म । व्याख्या जितानि वशीकृतानीन्द्रियाणि येन स यतेन्द्रियः पार्थिवो राजा ‘राजा राट् पार्थिवक्ष्माभृपभूपमहीक्षितः' इत्यमरः । तथाविधायास्तादृश्याः पुत्रप्राप्ति रूपाया उन्नतेरभ्युदयस्य यत् सदृशां योग्यं कार्यमौदार्यमेव धनं यस्य तस्य चेतस श्चित्तस्य यन्मतमिष्टभुदारचित्तेन च यत्सम्पादनीयं स्यात्तत्सर्वं सेवाकार्य तत्सामग्री च वित्तशाठ्यविवर्जित' इति स्मरणात् । अद्रिकन्यायाः पार्वत्या दयितस्य पत्युः शिवस्य पूजने पूजायां कल्पयति स्म रचयति स्म । यक्षानुकूलो बलिरिति न्यायाद्यथाकार्य सर्वम्कल्पयदिति भावः । भाषा जितेन्द्रिय राजा, बैसी पुत्र प्राप्ति के सदृश उच्च कामना के अनुरूप और उदारचित्त की प्रेरणा के अनुसार शंकर के पूजन में सब उत्तम वस्तुओं का प्रयोग करता था । इति क्षितीद्रश्विरमिन्दुशेखर-प्रसादनाय व्रतमुग्रमाश्रितः । कदाचिदाकर्णयति स्म भारतीं प्रभातपूजासमये नभश्वरीम् ॥४९॥ -- - -