पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हे क्षितीन्द्र हे राजन् ! इयं त्वदीया तव दयिता महिषी पुत्राणां सुतानां त्रितयस्य त्रयस्य त्रिसंख्याकसुतानां वा भाजनं पात्रं भविष्यति । मौक्तिकैरिव मुक्तामणिभिरिवाऽतिस्वच्छैः शुक्लवणैर्यस्तवपुत्रैरजितानि निष्पादितानि यशोभिः कीर्तिभिः ‘यशः कोर्तिः समज्ञा च' इत्यमरः । चुलुक्यवंशश्चुलुक्यनृपाणां कुलं शुचित्र तामुज्वलतां पवित्रतां वाऽऽयास्यति गमिष्यति । “श्रृङ्गारः शुचिरुज्ज्वलः' इत्यमरः । ते त्रयः पुत्राः कुलभूषणा भविष्यन्तीति भावः । अत्रोपमालङ्कार । भाषा हे राजा तुम्हारी इस धर्मपत्नी से तुम्हें तीन पुत्र होंगे । उनके द्वारा उपाजित मोतियों की ऐसी स्वच्छ और शुभ्र कीर्ति से यह चालुक्यवंश उज्वल या पवित्र हो जाएगा । निधिः प्रतापस्य पदं जयश्रियः कलालयस्ते तनयस्तु मध्यमः । दिलीपमान्धातृमुखादिपार्थिव-प्रथामतिक्रम्य विशेषमेष्यति ॥५२॥ अन्वयः ते मध्यमः तनयः तु प्रतापस्य निधिः जयश्रियः पदं कलालयः (सन्) दिलीपमान्धातृमुखादिपार्थिवप्रथाम् अतिक्रम्य विशेषम् एष्यति । व्याख्या ते तव मध्यमो द्वितीयस्तनयः पुत्रस्तु ‘आत्मजस्तनयः सूनुः सुतः पुत्रः इत्यमरः । प्रतापस्य प्रभावस्य सः प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । विधिनिधानं जयश्रियो जयलक्ष्म्याः पदं स्थानं कलानाञ्चतुःषष्ठि कलानामालयो गृहं सन् दिलीपश्चमान्धाता च दिलीपमान्धातारौ सुर्यवंशसमुत्पन्नौ