पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततः देव्या इति तथा कृतसम्मतिः सः पार्थिवः समस्तचिन्तां मन्त्रिषु विनिवेश्य प्रार्थितवस्तुसिद्धये अनुष्ठानविशेषतत्परः अभूत् । व्याख्य ततस्तदनन्तरं देव्या पयेतीवं भवदुक्तं पुत्रोत्पत्तिरूपं कथं तपस्साधनेन स्या- दिति हेतोस्तथैवाऽस्तु, इति कृता सम्मतिर्येन स कृतनिश्चयस्स पाथवो राजा समस्तां सम्पूर्णं चिन्तां राज्यभारचिन्तां मन्त्रिष्वमात्येषु विनिवेश्य विनिक्षिप्य प्रार्थितस्याऽभीष्टस्य वस्तुनः पुत्रस्य सिद्धये प्राप्तयेऽनुष्ठानविशेषे विशिष्टानुष्ठाने तत्पर आसक्तोऽभूत् । ‘तस्परे प्रसितासक्तौ' इत्यमरः । भाषा इसके अनन्तर, अपनी रानी की सम्मति मिलने पर, उस राजाने राजकाज का बोझ मन्त्रियों को । सौंपकर अभीष्ट पुत्रप्राप्ति की सिद्धि के लिये विशिष्ट अनुष्ठान करना प्रारम्भ कर दिया। तपः स्वहस्ताकृतपुष्पपूजितत्रिलोचनः स्थण्डिलवासधूसरः । तथा स राजर्षिरसाधयद्यथा महर्षयोऽस्मादपकर्षमाययुः ।।४४। अन्वयः सः राजर्षिः स्वहस्ताकृतपुष्पपूजित त्रिलोचनः स्थण्डिलवासधूसरः (सन्) तथा तपः असाधयत् यथा अस्मात् महर्षयः अपकर्षम् आययुः । व्याख्या स राजषि ऋषिव्रतगृहीतो नपः स्वहस्ताभ्यां स्वकराभ्यामाहृतानि समानीतानि