पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५५ तत्तस्मात्कारणाप्रभूतो बहुलो भावो भक्तिभावो यस्य स एष अहं जितानि वशीकृतानीन्द्रियाणीन्द्रियसमूहो येन स वशीकृतेन्द्रियसमूहस्सन् त्वय सह भवत्या सह तावत्कालपर्यन्तं तपसे तपश्चरणाय प्रयते महोद्योगं करिष्ये यावत्कालं विभावर्या रजन्याः विभावरीतमस्विन्यौ रजनी यामिनी तमी’ इत्यमरः । बल्लभः प्रियश्चन्द्रस्तस्य खण्ड एव कलंब सण्डनं भूषणं यस्य स जगतां भुवनानां ‘विष्टंपं भुवनं जगत्' इत्यमरः । गुरुः श्रेष्ठः सः शंकरो दयां कृपामयति प्राप्नोति । करुणार्द्धमानसस्सन्नभीष्टवरप्रदानं करोतीत्यर्थः । ष इसलिये दृढ़ भक्ति से युक्त, मैं तुम्हारे साथ इन्द्रियों को वश में करके अर्थात् संयम से तब तक तप करने में प्रयत्नशील रहँगा जब तक अर्धचन्द्र से शोभित जगत्प्रभु शंकर को मेरे ऊपर दया न आजाए । विधाय शान्त्यै कलुषस्य कर्मणस्तदेष सर्वेन्द्रियतापनं तपः । नयामि भक्तयाझटिति प्रसन्नतामखण्डया’खण्डशशताङ्कशेखरम् ।।४२॥ अन्वयः तत् एषः (अई) कलुषस्य कर्मणः शान्त्यै सर्वेन्द्रियतापनं तपः विधाय अखण्डया भक्त्या खण्डशशाङ्कशेखरं झटिति प्रसन्नतां नयामि । व्यख्य तत्तस्मात्कारणादेषोऽहं कलुषस्य दुष्कृतस्य ‘कलुषं वृजिनैनोऽघमंहो दुरित दुष्कृतम्' इत्यमरः । कर्मणः क्रियाकलापस्य शान्त्यै विनाशाय सर्वेन्द्रियाणां नेत्रादीनां तापनं पीडनं यस्मिन्तत्तपो दुष्करतपस्यां विधाय कृत्वाऽखण्डयाऽविच्छिन्न सन्तानया भक्त्या दृढभक्रयेत्यर्थः । खण्डश्वासौ शशाङ्क्षश्चन्द्रश्च सः शेखरं