+
- १ । २ " " " " " " ० " " ।
|
करस्थितस्यापि चकोरलोचने न पात्रमालस्यहतास्तपस्त्रिनः ।४०।। |
अन्वयः
असौ कुलप्रभुः बालमृगाङ्कशेखरः (यदि) निषेव्यते (तर्हि) किं दुष्प्रापम् अस्ति । हे चक्रोरनयने आलस्यहताः तपस्विनः करस्थितस्य अपि पात्रं न ।
व्याख्या
असौ प्रसिद्धः कुलस्य वंशस्य प्रभुरिष्टदेवता बालोऽह्न मृगाङ्गवचनः शेखरं शिरोभूषणं यस्य स शिवो यदि निषेव्यते सेवया प्रसन्नं क्रियते तह कि वस्तु दुष्प्रापं दुर्लभमस्ति, न किमपीत्यर्थः। हे चकोरवच्चपले नेत्रे नयने यस्यास्त त्सम्बुद्धौ हे चकोरनयने चकोरचपलनयने आलस्येनाऽकर्मणा हता आलस्यवशी- भूतास्तपस्विनो वराकाः करे करतले स्थितस्य विद्यमानस्याऽपि वस्तुनः पात्रं भाजनं न भवन्ति । कर्मशीलानामुद्योगिनां पुरुषाणां किमपि दुस्साध्यं नेत्यर्थः। अत्राऽर्थापत्त्यलारः।
भाषा
अपने वंश के इष्टदेव चन्द्रशेखर शंकर की यदि उपासना की जाय तो कोई वस्तु दुर्लभ नहीं है । हे चकोर के समान चन्वल नेत्र वाली ! आलस से भरे अकर्मण्य लोगों को, पास की वस्तु भी प्राप्त नहीं हो सकती है ।
|
तदेष तावत्तपसे सह त्वया प्रभूतभावः प्रयते यतेन्द्रियः। |