पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सः उर्वीन्दुः कृपार्द्रमानसः सन् अधीरलोचनां धीरम् अङ्कम् आरोप्य उज्ज्वलद्विजावलीकान्तिजलैः आतङ्कंकलङ्कं हरन् इव अवोचत ।

                                              व्याख्या

अथाऽनन्तरं स्वपत्न्या दुःखितदशानिरीक्षणानन्तरं सः प्रसिद्ध उर्व्याः पृथिव्या इन्दुश्चन्द्रः पृथिवीशोभाधायको राजा कृपया दययाऽऽर्द्र परिप्लुतं मानसं मनो यस्य स एवम्भूतस्सन् अधीरे चञ्चले लोचने नेत्रे ‘लोचनं नयनं नेत्रमीक्षणञ्चक्षु रक्षिणि' इत्यमरः । यस्याः सा तां दुःखेन चञ्चललोचनां धीरं यथास्यात्तथा धैर्यमवलम्ब्याऽगङ्रकं स्वोत्सङ्गमारोप्य प्रतिष्ठाप्योज्वला शुभ्रा द्विजानां दन्तानां ‘दन्तविप्राण्डजा द्विजाः' इत्यमरः । आवली पंक्तिस्तस्य कान्तयः एव जलानि तैरातङ्रक एव व्यथैव कलङ्को मालिन्यं तं हरन्निवाऽपमृजन्निवाऽवोचतोक्तवान् । हास्येन स्वभावं गोपयन् पत्न्याः सान्त्वनमकरोत् । अत्रोत्प्रेक्षालङ्कारः ।

                                              भाषा

अपनी पत्नी को दुःखी देखने के अनन्तर राजा के हृदय में दया का संचार ह़ोकर उसने चंचल नेत्र वाली रानी को, धीरज के साथ अपनी गोद म बैठाकर मानों सफेद दातों की कतार की कान्ति रूपी जल से पीडा रूपी धब्बे को धोते हुए कहा अर्थात् हँसते हुए रानी से कहा । अलं विषादेन करोषि किं मुखं कवोष्णनिःश्वासविधूसराधरम् । अभीष्टवस्तुप्रतिबन्धिनामहं कृताग्रहो निग्रहणाय कर्मणाम् ॥३८॥

                                            अन्वयः

विषादेन अलं, मुखं कवोष्णनिःश्वासविधूसराधरं किं करोषिं । अहं अभीष्टवस्तुप्रतिबन्धिनां कर्मणां निग्रहणाय कृताग्रहः (अस्मि) ।