पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रन्वयः उभयलोकबान्धवः सुतः न अस्ति चेत् अश्वमेधप्रभृतिक्रियाक्रमैः किम् । पितृणां ऋणम् अपनेतुम् अक्षमाः गृहमेधिनः कथं शुभं लभन्ते ।

                                          व्याख्या

उभयलोकस्येहलोकस्य परलोकस्य च बान्धवस्सुखकारी सहायक इत्यर्थः । सुतः पुत्रो नास्ति चेत्तर्हि अश्वमेधस्तन्नाम यज्ञः प्रभृतिरादिर्यासां क्रियाणां तासां क्रमैः सम्पादनैः किम् किम्फलम् । पुत्रोत्पत्त्यभावेऽश्वमेधादिसदृशानां स्वालौकिक शक्तिप्रदर्शकाणां कर्मणां सुतरामेव वैयथ्र्यं समायाति । पितृणां पूर्वपुरुषाणामृण मपनेतुं दूरीकर्तुमक्षमा असमर्था गृहमेधिनो गृहस्थाः कथं शुभं मङ्गलं लभन्ते प्राप्तुं शक्नुवन्ति ।

                                            भाषा

यदि इस लोक और परलोक दोनों में साथ देनेवाला पुत्र न हुआ तो अश्वमेध आदि यज्ञों के करने से क्या लाभ है। पितृऋण से मुक्त होने में असमर्थ गृहस्थ लोगों का कैसे कल्याण हो सकता है।

प्रतापशौर्यादिगुणैरलङ्कृतोऽप्युपैति तावन्न कृतार्थतां नृपः । सुतेन दोर्विक्रमलब्धकीर्तिना न यावदारोहति पुत्रिणां धुरि ।॥३५॥

                                           अन्वयः

नृपः प्रतापशौर्यादिगुणैः अलङ्कृतः अपि तावत् कृतार्थतां न उपेति यावत् दोर्विक्रमलब्धकीर्तिना सुतेन पुत्रिणां धुरि न आरोहति ।