पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या गेहिनी गृहिणी गृहधर्मरता स्त्री यथा निर्व्याजं निष्कपटं यथास्यात्तथाऽलीक हासिनाऽनृतहासिना कारणमन्तरैव प्रकृत्या हासं कुर्वता 'अलीकं त्वप्रियेऽनृते ' इत्यमरः । अङ्कः उत्सङ्ग एव पर्यङ्कः खट्वा ‘अङ्को रूपकभेदाऽङ्गचिन्हरेखाजिभू -षणे । रूपकांशांतिकोत्सङ्गस्थानेऽङ्कं पापदुःखयोरिति' मेदिनी । ‘शयनं मंचपर्यक- पल्यङ्काः खट्वया समाः' इत्यमरः । तद्गतेन सुतेन पुत्रेण शोभते सौभाग्यमालम्बते तथा प्रियस्य पत्युः प्रसादेन प्रसन्नताप्रदर्शनेन विलासस्य भोगस्य सम्पदा विभवेन, भोग्यसुकखसमृद्धिसामग्र् धा भूषाया भूषणस्य विभवेन वैशिष्ट्येन वा न शोभते ।

                                          भाषा

गृहिणी जिस प्रकार कपट रहित स्वाभाविक हास्य करने वाले गोद रूपी पलङ्ग पर लेटे हुए पुत्र से शोभित होती है वैसे न तो पती की प्यारी होने से, न उपभोग योग्य सुख समृद्धि की वस्तुओं से, न गहना कपड़ा पहनने से शोभित होती है ।

वहन्ति िहंस्राःपशवःकमात्मनो गुणं वितक्र्यात्मजरक्षणश्रमम् पदार्थसामथ्र्यमचिन्त्यमीदृशं यदत्र विश्राम्यति निर्भरं मनः ॥३३॥

                                   अन्वयः

हिंस्राः पशवः श्रात्मनः कं गुणं वितक्र्य आत्मजरक्षणश्रमं वहन्ति । ईदृशम् अचिन्त्यं पादर्थसामथ्र्यं यत् अत्र मनः निर्भरं विश्राम्यति ।

                                         व्याख्या

हिंस्रा हिंसकाः पशवो व्याघ्रादय आत्मनो स्वस्य कं विशिष्टं गुणं प्रयोजनं वितक्र्य विमृश्याऽऽत्मजस्य पुत्रस्य रक्षणस्य भरणपोषणादभिः पालनस्य श्रमं खेदं