पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः असौ सदा मानसगोचरस्थिता अलका लोकत्रितयाद्भुतैः गुणैः मनसः अपि मार्गम् अतीत्य तिष्ठतः अमुष्य तुलायां कथं प्रगल्भते । व्याख्या असौ प्रसिद्धा सदा नित्यं मानसं सरश्चिन्तञ्च तस्य मानससरसो मनसश्च गोचरो देशो हिमालयप्रदेशो द्रुष्तिष्च तत्र स्थिता विद्यमानाऽलका कुबेरनगरी लोकत्रितये त्रिषु भुवनेषु 'त्रिष्वथो जगती लोको विष्टपं भुवनं जगत्' इत्यमरः । अद्भुता आश्चर्यकारिणी गुणास्तैर्मनसोऽपि चित्तस्याऽपि मार्ग पन्थानमतीत्याऽति क्रम्य तिष्ठतो वर्तमानस्थाऽचिन्त्यरूपस्याऽमुष्याऽस्य पुरस्य तुलायां साम्ये कथं प्रगल्भते समर्था भवति । अत्राऽर्थापत्तिरलङ्कारः । ‘दण्डापूपिकयान्यार्थागमोऽ- थार्पत्तिरिष्यते ।' भाषा मानस सरोवर के आसपास हिमालय प्रदेश में स्थित अथवा मन से जानी जा सकने वाली अलका नामक कुबेर की नगरी तीनों लोकों में अद्भुत गुणों से यवत और मन से भी कल्पना न की जा सकने वाले, इस कल्याण नगर की कैसे बराबरी कर सकती है । अतःपरमाहवमल्लदेवनृपं स्तौति । विजित्य सर्वाः ककुभः स भार्गव-प्रचन्दकोदन्दपरिष्रमो नृपः । उवास तत्रार्थिशतानि पूरयन् फलं हि पात्रप्रतिपादनं श्रियः ।। ६।।