सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्याख्या

 यत्र पुरे निशासु रात्रिषु उन्नता अत्युच्चाः प्रासादा राजसदनानि तेषां सङ्गति -समागमं विगाहमानस्य विदधतो विधोश्चन्द्रस्य कुरङ्गकः कलङ्करूपमृगो वक्रा वत्रीकृता कन्धरा ग्रीवा येन स एवम्भूतस्सत् एणचक्षुषां मृगनयनानामङ्गनानां वतंस आभूषणरूपचासौ दूर्वाङकुरश्च तं "वतंस अवतंसः । "वष्टि भागुरिरल्लो- पमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा" इति । कर्णा- सरूपं दुर्वारं ग्रहीतुं भक्षणार्थं स्वीकर्तुमाकाङक्षत्यभिलषति । अत्रातिशयो- क्त्यलङ्कारः ।

भाषा

 जहाँ रात्रियों में, चन्द्र के, बहुत ऊँचे राजसदनों के समीप आने से, चन्द्रमा में का मृग, टेढ़ी गर्दन करके, मृगनयनी नारियों के कानों पर आभूषण के रूप खोंसे हुवे दूब के अंकुर को खाने की इच्छा करता था ।


अवागुरं नेत्रकुरङ्गबन्धनं निरक्षरं पञ्चशरस्य शासनम् |
गृहे गृहे यत्र विचित्रमन्वहं वितन्वते नृत्तमधीरलोचनाः ||२४||'

अन्वयः

 यत्र अधीरलोचनाः गृहे गृहे अन्वहम् अवागुरं नेत्रकुरङ्गवन्धनं पचशरस्य निरक्षरं शासनं विचित्रं नृत्तं वितन्वते ।

व्याख्या

 यत्र पुरेऽधीरे चञ्चले लोचने नेत्रे यासां ताश्चञ्चलनयनाः कामिन्यो गृहे गृहे प्रतिगृहमन्वहं प्रतिदिनं नास्ति बागुरा मृगबन्धनी यस्मिन्तदवागुरं नेत्राण्येव