पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविस्मृतत्र्यम्बकनेत्रपावकः स्मरः स्मितेन्दीवरदीर्घचक्षुषाम् । विलासपीयूषनिधानकुम्भयोर्न यत्र पार्श्व कुचयोर्विमुञ्चति ॥१६॥ अन्वयः यत्र अविस्मृतत्र्यम्बकनेत्रपावकः स्मरः स्मितेन्दीवरदीर्घचक्षुषां विलास पीयूषनिधानकुम्भयोः कुचयोः पार्श्व न मुञ्चति । व्याख्या यत्र पुरे न विस्मृतस्त्र्यम्बकस्य शिवस्य नेत्रपावको नयनाग्निदाहो येन सः स्मरः कामदेवः स्मितानि विकसितानीन्दीवराणि कमलानीव चक्षुंषि नेत्राणि यासां तासामङ्गनानां विलासरूपं यत्पीयूषममृतं तस्य निधानं निक्षेपणं ययोस्तौ कुम्भौ तयोस्तदूपयोः कुचयोः स्तनयोः पाश्वं सामीप्यं न मुञ्चति न परित्यजति । दाहजन्यमृत्युनिवारक, भेषजस्यामृतस्य स्तनयोः स्थितत्वात्तत्रैव नियतस्थिति समाचकाङक्ष काम इति भावः । काव्यलिङ्गमलङ्कारः, तेन उत्प्रेक्षा व्यज्यते । भाषा जिस नगर में, महादेव के तृतीय नेत्र की अग्नि के दाह को न भूलने वाला कामदेव खिले हुए कमल के समान बड़े २ नेत्र वाली नारियों के, विलास रूपी अमृत का खजाना स्वरूप दो घड़ों से अभिन्न स्तनों से दूर नहीं होता है । स्मरस्य यत्राद्भुतमस्रकौशलं तथाह्यसौ चारुदृशां विलोचनैः । उपागतैरुत्पलपत्रमित्रतां शिलाकठोराणि मनांसि विध्यति ॥२०॥ --