पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारीणां वक्त्रेन्दूनां मुखचन्द्राणां सहस्रस्य मध्यं गच्छतीति पुरन्ध्रिप्रवक्तेन्दुसहस्र मध्यगः सन् स्त्रीमुखेन्दुसहस्रमध्यवर्तित्वाद्राहोरलक्ष्यतामपरिभाव्यतामुपयाति प्राप्नोति । चन्द्रबाहुल्याद्वास्तविकचन्द्रपरिचयाभावादपरिभाव्यतामुपयातीति भावः । अत्र सामान्यं नाम अलङ्कारः । ‘सामान्यं प्रकृतस्याऽन्यतादात्म्यं सदृशैर्गुणैः ।' भाषा रोहिणी के पति चन्द्रमा को इस नगर के घरों में प्रवेश कर बहुत लाभ होता था इसमें सन्देह नहीं। क्योंकि राहू, हजारों स्त्रियों के मुखचन्द्रों के बीच में इसके रहने से, इसको नहीं पहचान पाता था । यदीयसौधध्वजपट्टपट्टिकाः समुच्चलन्मौक्तिककान्तिनिर्भरैः । नभस्तलान्दोलनविभ्रमाहृतं विनिक्षिपन्तीव सुरापगापयः ॥१८॥ अन्वयः यदीयसौधध्वजपट्टपट्टिकाः समुच्चलन्मौक्तिककान्तिनिर्भरैः नभस्तलान्दो लनविभ्रमाहृतं सुरापगापयः विनिक्षिपन्ति इव । व्य‍ाख्या यदीयेषु यत्पुरसम्बन्धिषु सौधेषु राजसदनेषु ‘सौधोऽस्त्रि राजसदनम् ' इत्यमरः । ध्वजाः पताकाः 'पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् इत्यमरः । तेषां पट्टस्य कौशेयस्य पट्टिका वस्त्राणि समुच्चलन्ति प्रकम्पमानानि ध्वजपटप्रान्तभागविनिविष्टानि मौक्तिकानि तेषां कान्तिनिर्झरैः प्रभाप्रवाहैः