पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निराकृते यत्र रुषां समुद्रमे भुजङ्गसौभाग्यगुणेन सुश्रुवाम् । वनान्तपुंस्कोकिलपञ्चमोर्मयो भवन्ति मानज्वरशेषभेषजम् ॥१६॥ अन्वयः यत्र सुश्रुवां रुषां समुद्रमे भुजङ्गसौभाग्यगुणेन निराकृते (सति) वनान्तपुंस्कोकिलपञ्चमोर्मयः मानज्वरशेषभेषजं भवन्ति । व्याख्या यत्र पुरे सुश्रुवां सुन्दरश्रुकुटियुक्तामङ्गनानां रुषां कोपानां ‘कोपक्रोधा मर्षरोषप्रतिधा रुट्क्रुधौ स्त्रियौ' इत्यमरः । समुद्गमे उत्पत्तौ भुजङ्गा विटजनाः कामुका बा तेषां यत्सौभाग्यं स्त्रीप्रसादानुकूलकलाप्रावीण्यं तस्य गुणेन प्रभावे णोत्कर्षेण वा निराकृते दूरीकृते सति वनान्तस्यारण्यमध्यस्य पुंस्कोकिलाः पिकास्तेषां पञ्चमोर्मयः पञ्चमस्वरतरङ्गाः, (कोकिलाः पञ्चमस्वर एव शब्दायन्त इति लोकप्रसिद्धिः) । मानज्वरस्य प्रणयकोपरूपज्वरस्य शेषोऽवशिष्टांशस्तस्य भेषजं तच्छामकौषधिः ‘भेषजौषधभैषज्यान्यगदोजायुरित्यपि' इत्यमरः । भवन्ति जायन्ते । रूपकालङ्कारः । ‘रूपकं रूपितारोपाद्विषये निरपन्हवे' । भाषा जिस नगरी में अच्छी भौवों वाली नारियों में प्रणयकोप उत्पन्न होने पर कामुकों या विटों द्वारा अपनी प्रणयकोप को दूर करने की चातुरी से उनका कोप शान्त होने पर, वन में बोलने वाली कोयलों के पञ्चम स्वर की लहरें उनके अवशिष्ट मान रूपी ज्वर को मिटाने के लिये आेैषध का काम करती हैं । अथति कोयल के शब्दों को सुनकर उनका सम्पूर्ण प्रणयकोप दूर हो जाता था ।