पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चक्षुषां साहाय्येन साफल्यं निश्चितमिति धियेति भावः । अत्र वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । जिस नगरी की मृगनयनी स्त्रियों के हावभावों को तीनों लोकों को वश कर लेने में समर्थ समझ, शंकर की हार का स्भरण रखने वाला कामदेव मानो शिव को हराने या वश में करने के लिये फिर अपना धनुष तयार कर रहा है। अर्थात् इन मृगनयनियों की सहायता से अब शंकर को वश में कर लेना सरल है, ऐसे बिचार से फिर से धनुष तयार किया । स्मर-प्रशस्तिप्रतिवस्तुतां गताः सलीलदात्यूहसमूहनिस्वनाः । भवन्ति यत्र क्षणमात्रविश्रम-प्रदायिनः कण्ठरवेषु योषिताम् ॥१५॥ अन्वयः यत्र स्मरप्रशस्तिप्रतिवस्तुतां गताः सलीलदात्यूहसमूहनिस्वनाः योषितां कण्ठरवेषु क्षणमात्रविश्रमप्रदायिनः भवन्ति । व्याख्या यत्र पुरे स्मरस्य कामस्य प्रशस्तिः कीर्तिप्रशंसा तस्याः प्रतिवस्तुतां तत्पर्याय रूपत्वं गताः प्राप्ता लीलया विलासेन सहितास्सलीला दात्यूहा जलकाकाः पक्षिविशेषाः ‘दात्यूहः कालकण्ठकः' इत्यमरः । तेषां समूहस्य निःस्वनाः शब्दा योषितां स्त्रीणां कण्ठरवेषु भाषणकार्येषु गीतेषु वा क्षणमात्रमीषत्कालपर्यन्तं विश्रमं शान्ति प्रददतीतिविश्रमप्रदायिनो शान्तिदातारो भवन्ति । तत्रत्यानां नारीणां शब्दो दात्यूहकूजितवन्मधुर इति व्यज्यते । उपमाध्वनिः ।<reference‍>/