पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृश्यते । तथाह्यसौ स्मर उत्पलपत्राणां कमलपत्राणां मित्रतां साम्यमुपागतैः प्राप्तैरतिकोमलैरित्यर्थः । चारुदृशां रम्यनयनानां नारीणां विलोचनैरक्षिभिः शिलावत्पाषाणवत्कठोराणि कठिनानि धैर्यातिशययुक्तान्यपि मनांसि यूनां चेतांसि विध्यति भिनत्ति । कार्यकारणयोर्गुणभेदादत्र विषमालङ्कारः । ‘गुणौ ऋिये वा चेत्स्यातां विरुद्धे हेतुकार्ययोः । यद्वारब्धस्य वैफल्यमनर्थस्प च सभ्भवः । विरूपयोः संघटना या च तद्विषमं मतम्'। भाषा इस नगर में कामदेव का अस्त्रप्रयोग का कौशल आश्चर्य जनक था । इसीलिये वह कमल के पत्तों की समानता अर्थात् कोमलता को प्राप्त, सुन्दर नेत्रबाली नारियों के नेत्रों से पत्थर के ऐसे कड़े युवकों के हृदयों को वेध देता था । समुद्रवेला रतिरत्नसम्पदा वधूतडित्ताण्डवमेघमण्डली । नभःस्थली विभ्रमतारकस्रजा विभाति यत्र स्मरतल्पकल्पना ।।२१।। अन्वयः यत्र स्मरतल्पकल्पना रतिरत्नसम्पदा समुद्रवेला, वधूतडित्ताण्डवमेघ मण्डली, विभ्रमतारकस्रजा नभःस्थली, विभाति । व्याख्या यत्र पुरे स्मरस्य कामस्य तल्पस्य शय्यायाः कल्पना रचना ‘तल्पं शय्याट्टदारेषु स्तंबेऽपि विटपोऽस्त्रियाम्' इत्यमरः । रतिः कामस्त्री तत्स्वरूपा या रत्नसम्पत् तया सर्वजनहृद्यत्वाद्रले रत्नसम्पद्यभेदारोपः । समुद्रवेला सागरतटभूमिः, स्मरतल्प कल्पनायां समुद्रवेलाया आरोपः, रतिस्वरूपरत्नसम्पदस्समुद्रवेलायां स्थितत्वात् । वधूस्वरूपतडितस्ताण्डवं नृत्यं यत्रैवम्भूता मेघमण्डली, अस्या स्मरतल्पकल्पनाया