पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तम्भयामास पयोनिधेर्यस्तीरे जयस्तम्भमदम्भवीरः । असूयितं स्वैरविहारशीलैरालानभीत्या जलवारणेन्द्रः ॥११॥ अन्वयः अदम्भवीरः यः पयोनिधेः तीरे स्वैरविहारशीलैः जलवारणेन्द्रे आलानभीत्या असूयितं जयस्तम्भम् उत्तम्भयामास । व्यारख्या नास्ति दम्भः कपटो यस्मिन्स अदम्भ आडम्बररहितश्चाऽसौ वीरो योद्धा यो राजा पयोनिधेः समुद्रस्य तीरे तटे स्वैरं स्वच्छन्दं विहारस्य विहरणस्य शीलं स्बभावो येषां तैर्जलवारणेन्दैस्समुद्रहस्तिभिरालानस्य करिबन्धस्तस्भस्य ‘तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ श्रृंखले' इत्यमरः । भीत्या भयेनाऽसूयितं दोषाविष्क- छ रणेन निन्दितं जयस्तम्भं विजयसूचकस्तम्भमुत्तम्भयामास निचखान । जयस्तम्भे समुद्रगजानामालानस्य भ्रान्त्याऽसूयेति प्रतीत्या भ्रान्तिमानलङ्कारो व्यङ्गयः । भाषा दम्भरहित वीर, उस राजा ने, स्वच्छन्द विहार करने वाले जल हाथियों द्वारा हाथी बांधने के खूटे के भय से ईष्य युक्त दृष्टि से देखे जानेवाले विजय स्तम्भ को समद्र के तट पर गाड दिया लब्ध्वा यदन्तःपुरसुन्दरीणां लावण्यनिष्यन्दमुपान्तभाजाम् । गृहीतसारस्त्रिदशैः पयोधिः पीयूषसंदर्शनसौख्यमाप ॥१२॥ अन्वयः

=