पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अम्बुराशिः यद्भटेषु रत्रोत्करग्राहिषु (सत्सु) तटब्रटन्मौक्तिकशुक्ति भङ्गया तीरशिलातलेषु रोषेण मूधनम् अस्फोटयत् इव । व्याख्या अम्बूनां जलानां राशिस्समुद्रो यस्य राज्ञो भटेषु योडूषु रत्नानामुत्कराः समूहास्तेषां ग्राहिषु सत्सु स्वायत्तीकृतवत्सु सत्सु तटेषु त्रुटन्ति स्फुटितानि मौक्तिकानि याभ्यस्ताः शुक्तयस्तासां भङग्या व्याजेन तीरे तटे यानि शिलातलानि प्रस्तरभूमयस्तेषु रोषेण कोपेन मूर्धानं शिरसमस्फोटयदिवाऽखण्ड यदिव । अत्राऽपहुतिमूलकोत्प्रेक्षालङ्कारः । समुद्रे शिरस्फोटनस्य क्रियाया उत्प्रेक्षणादुत्प्रेक्षा । नेमा स्फुटितमुक्ताशुक्तयः किन्तु समुद्रकर्तृकशिरस्फोट नमिति प्रतीत्या प्रतीयमानाऽऽर्थापन्हुतिरुत्प्रेक्षाङ्गम् । ‘प्राकृतं यन्निषिध्यान्य त्साध्यते सात्वपन्हुतिः । भाषा जिस राजा के योद्धाओं के, समुद्र के रत्न समूहों को ले लेने पर, तट पर पड़ी हुई मोती निकाली, सीपों के मिप से मानो समुद्र ने क्रोध से किनारे पर के पत्थरों पर माथा पटक २ कर अपना सिर टुकड़े २ कर डाला । यं वीक्ष्य पाथोधिरधिज्यचापं शोणाश्मभिः शोणितशोणदेहैः। क्षोभाद्भीक्ष्णं रघुराजबाण-जीर्णव्रणस्फोटमिवाचचक्षे ॥१०९॥ अन्वयः पाथोधिः अधिज्यचापं यं वीक्ष्य शोणितशोणदेहैः शोणाश्मभिः अभीक्ष्णं क्षेोभात् रघुराजबाणजीर्णव्रणस्फोटम् इव आचचक्षे ।