पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४]
२९
विकमाङ्कदेवचरितम् ।

शिलाभिः करटिक्षुण्णश्रीखण्डस्यन्दपाण्डुभिः।
मलयस्तद्बलक्षोभादस्थिशेष इवाभवत् ॥१०॥
अम्भोधिः श्रीभुजंगस्य निद्राभङ्गविधायिना ।
चमूकलकलेनेव कुपितः क्षोभमायौ ।॥ ११ ॥
क्षुण्णास्तत्करिभिस्तोयद्विपाङ्घ्रिनिगडोपमाः ।
शयानाः कुण्डलीभूय वार्वितीरे महोरगाः ॥ १२ ॥
दधिरे तद्गजाः पादलग्नपाथोधिमौक्तिकाः ।
क्षुण्णनक्षत्रपुञ्जस्य सौन्दर्यं सुरदन्तिनः ॥ १३ ॥
तस्य वाहनमेकैकं गाहमानममन्यत ।
मन्दुरास्मरणायातमुच्चैःश्रवसमम्बुधिः ॥ १४ ॥
तद्दन्तिपदसंघट्टन्मौक्तिकशुक्तिकः ।
चक्रेम्बुधिर्भयोद्भ्रान्तहृदयस्फुटनभ्रमम् ॥ १५ ॥
अन्विष्यन्मरणोपायं दुःखात्तत्सैन्यलुण्ठितः ।
कालकूटं हरग्रस्तं शुशोच पयसां निधिः ॥ १६ ॥
विद्रुमेषु समुद्रस्य कान्ताबिम्बौष्ठकान्तिषु ।
अराजन्राजपुत्रस्य प्रीतिपात्रीकृता दृशः ॥ १७ ॥
तेन केरलभूपालकीलालकलुषीकृतः ।
अगस्त्यमुनिसंत्रासमत्याज्यत पयोनिधिः ॥ १८ ॥
उदरालोडनाद्भ्रान्तदन्तसंक्रान्तपन्नगैः।
पाथोधेरन्त्रमालेव तद्दन्तिभिरकृष्यत ॥ १९॥
तद्भयात्सिंहलद्वीपभूपतिः शरणागतः।
विशश्रामाश्रमपदे लोपामुद्रापतेर्मुनेः ॥२०॥
धुनानेन धनुश्चित्रं कृतास्तेन मुखेन्दवः ।


IV. 12 नन्कारस्तो °Ms.-IV. 14.मंजुधैः Ms.