पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. विक्रमाङ्कदेवचरितम् |

प्रत्यावृत्तिरकाण्डकम्पतरराशाङ्क लङ्काचरैः ॥ ७७ ॥
इति श्रीविक्रमादित्यदेवचरिते महाकाव्ये त्रिभुवनम-
लदेवविद्यापतिकाश्मीरकभट्टबिल्हणविरचिते तृतीयः
सर्गः ॥ ३ ॥
२८
कार्यतो युवराज राजसूनुरवस्थितः ।
स दिग्विजयमव्याजवीर: स्मर इवाकरोत् ॥ १ ॥
अभज्यन्त गजैस्तस्य लीलया मलयद्रुमाः |
समं केरलकान्तानां चूर्णकुन्तलवल्लिभिः ॥ २ ॥
मदस्तम्बेरमैस्तस्य मलये निमीकृते ।
मन्ये चन्दनवायूनाममूटुर्मिंक्षमक्षयम् ॥ ३ ॥
चन्दनस्यन्दडिण्डीरच्छलेन मलयाचलः ।
पिण्डं श्रीखण्डवृक्षाणां परोक्षाणामिवाकरोत् ॥ ४ ॥
सान्द्र चन्दन
निस्पन्दपडिलैस्तस्य वारणैः ।
क्षमताः प्रविश्य शमितोम्बुधेः ॥ ५ ॥
औमिततपाथोधौ चन्दनस्यन्दवासिताः |
शीतोपचारसाम्राज्यं भेजुर्मलयनिम्नगाः ॥ ६ ॥
सखीव निखिलैस्तस्य सेना सीमन्तिनीजनैः ।
प्रीत्या मलयवायूनां जन्मभूमिरदृश्यत ॥ ७ ॥
मलयेन तदीयस्त्रीसुरभिश्वसितानिलैः ।
• गुहाश्चन्दनवायूनां वीजार्थमिव पूरिताः ॥ ८ ॥
गजोन्मूलितनिक्षिप्त चन्द नमसंपदः ।
समूल्यमित्र रत्नानि जग्राह महतोम्बुधेः ॥ ९ ॥