सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स॰३]
२७
विक्रमाङ्कदेवचरितम् ॥

नाभीसरोजोदभ्मवारणाय संचारिता चन्द्रमसः प्रभेव ॥ ७० ॥

न भोजराजः कविरञ्जनाय मुञ्ज़ोथवा कुञ्जरदानदक्षः ।
हस्ताम्बुजे तस्य गुणिप्रियस्य सहर्षमाविष्कृतहेमवर्षे ॥ ७१ ॥

तस्यारिलक्ष्मीपरिरम्भकेलिसमुत्सुकप्राज्यभुजद्वयस्य ।
केयूररत्नाङ्कुरकण्टकानां तैक्ष्ण्यं कृपाणाहतिभिर्निरस्तम् ॥ ७२ ॥

एकातपत्रोर्जितराज्यलोभाच्छत्तान्तराणामिव वारणाय ।
स भूभृतामुन्नतवंशभाजां दण्डानशेषाञ्छतथा बभञ्ज ॥ ७३ ॥

गायन्तिस्म गृहीतगौडविजयस्तम्बेरमस्याहवे
तस्योन्मूलितकामरूप नृपतिप्राज्यप्रतापश्चियः ।
भानुस्यन्दनचक्रघोषमुषितप्रत्यूषनिद्वारसाः
पूर्वाद्रेः कटकेषु सिद्धवनिताः प्रालेयशुद्धं यशः ॥ ७४ ॥

आसीत्तस्य समुत्सुकः सुरपतिः संग्रामसंदर्शने
सेहे किंतु न गाढपीडितधनुष्टंकारमुचैःश्रवाः ।
आरूढः सुरवारणं रणरसकुद्धेभगन्धग्रहा-
तेनाप्येष पलायनप्रणयिना दूरं समुत्सारितः ॥ ७५ ॥

काञ्ची पदातिभिरमुण्य विलुण्टिताभू-
देवालयध्वजपटावलिमात्रशेषा ।
लुण्टाक लुप्त निखिलाम्बरडम्बराणां
कौपीनकार्पणपरेव पुराङ्गनानाम् ॥ ७६ ॥

अत्र द्वावितभूमिपालदलनक्रीडारसोत्थे रवे
कोदण्डध्यानभिर्विधुन्वति धनध्वानानुकारैर्जगत् ।
वैदेहीरमणस्य रावणशिरश्छेदेप्यशान्तकुधः

__________________________________________________________________________________________________________________________________
 III. 77. रसोमरवे Ms.