सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
[ स॰१३
विक्रमाङ्कदेवचरितम् ।

निपत्य वीथीषु किरातवेश्मनां हृताच्छमलप्रतिमतां गताः ॥ २३ ॥
अकृत्रिमाः काण्डपटाः पयोमुचस्तडिद्वधूलास्यरहस्यमाङ्गेषु ।
निदाघतप्ते नभसि स्फुरन्त्यमी गलज्जलार्द्राः सदशाः कृशोदरि ॥२४॥
raarogaषु ये शितीक्रियन्ते मदनेन पक्षिणः ।
तडिलता तन्त्रिकषोत्थपावकस्फुलिङ्गभङ्ग ललिताङ्गि सेवते ॥ २५ ॥
अमी गृहीत्व पयोधिमध्यगक्षमाघरक्षेम कथामुपागताः ।
घनाः समारब्ध शिखण्डिताण्डवं विमुद्रयन्ति ध्वनिमद्विसानुषु ॥ २६
द्विषन्ति राजीयमुखि स्वजीवितं ध्रुवं मयूरास्तव निर्जिताः कचैः ।
मन्ति यद्वावचा संमुखाः शिलीमुखप्राप्तिसमुत्सुका इव ॥ २७ ॥
जिगीषवः प्रावृषमुक्त कार्मुकाः प्रगल्भते शक्रधनुः क कर्मणि ।
अवैमि संप्रत्यालङ्घयशासनं शरासनं मान्मथमेव मानिनि ॥ २८ ॥
अयं निदाघस्य तनोति पाटवं समस्त पृथ्वी र सकर्षणैः परैः ।
उदञ्चदुच्चण्डतडित्करस्त्विषामधीशमित्याक्षिपतीव वारिदः ॥ २९ ॥
निदाघबन्धोत्विषमुष्णदीधितेरपि प्रविष्टामिह मण्डलोदरे ।
अवैमि निर्वापयतुं मृगेक्षणे रुणद्धि तारारमणं वलाहकः ॥ ३० ॥
निदाघमानातजगत्त्रयं कुधा विधाय लीलाकवलं बलाहकः ।
इतो वलाकामिवस्थितां मुखे तदस्थिमालामिव दर्शयत्ययम् ॥ ३९ ॥
अवाप्य शिक्षां गतिषु त्वदन्तिकाज्जगत्तयो दुर्लभमूरिभङ्गिषु ।
प्रयान्ति हंसाः सुरहंसमण्डली गुरुत्वलोभादिव सुख मानसम् ॥ ३२
द्रवन्ति हंसाः सुरचापचु म्बिनः पयोदवृन्दान्निपतत्सु बिन्दुषु ।
प्रवर्तमानाङ्गलिकाद्धनुर्मुखाद्विशङ्कमाना इव गोलका लिम् ॥ ३३ ॥
अपह्नुताश्चञ्चुपुटैः शिखण्डिनां प्रकाशिताः कोमलकूजिताङ्कुरैः ।


XIII. 28. किरातवेश्मना Ms. – XIII. 24. तडव े; जलाद्रीसदृशा: Is.--XIII. 25, शितीकृने Ms. - XIII. 33. पयोवृ ; प्रवर्तमानागुळिकाश्र° Ms-