पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १३] विक्रमाङ्कदेवचरितम् ।

पतन्ति कृच्छ्राद्भुषि पान्थयोषितां कयोष्णनिःश्वासकदार्थताः कणा: ३४
ग्रहीतुमेते निजचञ्चकोटिमिर्झदित्यनभ्यासत्रशान्त पारिताः ।
क्षितो लुठन्तः शितिकण्ठशावकैरसूयिताः सुख नवाव बिन्दवः ॥ ३५॥
तृणानि भूभृत्कटकेषु निक्षिपन्न कैः स्फुरद्वीरमृदङ्गनिस्वनः ।
तडित्प्रदीपैश्चलदलीलया निदाघमन्विष्यति बारिदागमः ॥ ३६ ॥
नमत्ययः श्यामलझण्पमण्डलस्थितेन्द्र गोपप्रचपासु वारिदः ।
गिरिस्थलीषु च्युतशक्रकार्मुकभ्रमादिवोद्धान्तत डिद्विलोचनः ॥ ३७॥
अमी वियन्नीलसरोजमण्डलप्रलम्बनालप्रतिमल्लडम्बराः ।
अनङ्गनाराचपरंपरानिभाः पतन्ति धारानिचयाः पयोमुचः ॥ ३८ ॥
अनङ्गशस्त्राणि नताङ्गि तीक्ष्णतां नयत्ययस्कार इवाम्बुदागमः ।
मलीम साङ्गाररुचां पयोमुचां तथा हि मध्ये ज्वलितस्तडिच्छिखी ॥ ३९ ॥
निदाघमित्रेण विसूत्रितं जलं तव प्रियेणाखिलमुष्णरश्मिना ।
कुवेत धारालगुढैलाहकस्ताडित्ययं ताडयतीष पद्मिनीम् ॥ ४० ॥
कृतक्षणं क्षुद्रनदीसमागमे तरंगिणीनाथमवेक्ष्य संप्रति ।
विलङ्ग्य मार्ग सहसा महापगाः पतन्ति नीचेषु नदान्तरेष्वापे ॥४१॥
इयं नमन्ती नभसः पयोभरादवैौभ नीलोत्पलभङ्गिनिर्मला |
करोति सर्वत्र विलोक्य कदमं पयोदमाला पदमासानुषु ॥ ४२ ॥
ध्रुवं कयाचित्कथया पयोनिधेः स्तनद्भिः सरितः प्रकोपिताः |
प्रयान्ति सद्यः कलुषाः सरित्पति तथा हि कोलाहलमांसलोर्मयः॥ १३ ॥
तरंगिणीनाथसमागमत्वराप्रधाविताः शैलनदीभिरन्तरे |
निरुध्यमानाः कलहं महारवैर्विमुद्रयन्तीव समुद्रवल्लभाः ॥ १४ ॥
जलेन भिन्ना किती वसुंधरा मदर्पितेनेति परीक्षितुं घनाः ।
सहाम्बुधारामिरवीरलोचने क्षितौ शलाका इत्र निक्षिपन्त्यमी ॥ ४५ ॥

XIII. 41. क्षत● Ms.--XIII. 42. यं नमन्ती Ms.