पतन्ति कृच्छ्राद्धुषि पान्थयोषितां कयोष्णानिःश्वासकदर्शिताः कणाः ३४
ग्रहीतुमेते निजचञ्चु कोटिभिर्झटित्यनभ्यासत्रशान्त पारिताः ।
क्षितो लुठन्तः शितिकण्ठशायकैरसूचिताः सुखु नवाचबिन्दवः ॥ ३५॥
तृणानि भूभृत्कटकेषु निक्षिपन्न कैः स्फुरद्वीरमृदङ्गनिस्वनः ।
तडित्प्रदीपैश्वलदङ्गलीलया निदाघमन्विष्यति वारिदागमः ॥ ३६ ॥
नमत्ययः श्यामलशष्पमण्डलस्थितेन्द्र गोपप्रचयासु वारिदः ।
गिरिस्थलीषु च्युतशक्रकार्मुकवमादियोद्धान्ततडिद्विलोचनः ॥ ३७ ॥
श्रमी वियन्नीलसरोज मण्डलप्रलम्बनालप्रति मल्लडम्बराः ।
अनङ्गनाराचपरंपरानिभाः पतन्ति धारानिचयाः पयोमुचः ॥ ३८ ॥
अनङ्गशस्त्राणि नताङ्गि तीक्ष्णतां नयत्ययस्कार इवाम्बुदागमः ।
मलीमसाङ्गाररुचां पयोमुचां तथा हि मध्ये ज्वलितस्तडिच्छिखी॥३९॥
निदाघमित्रेण विसूत्रितं जलं तव प्रियेणाखिलमुष्णरश्मिना ।
कुतिः धारालगुडैर्वलाहकस्ताडित्ययं ताडयतीव पद्मिनीम् ॥ ४० ॥
कृतक्षणं क्षुद्र नदीसमागमे तरंगिणीनाथमवेक्ष्य संप्रति ।
विलङ्घय मार्ग सहसा महापगाः पतन्ति नोचेषु नदान्तरेष्वपि ॥४१॥
इयं नमन्ती नभसः पयोभरादवैमि नीलोत्पलमङ्गिनिर्मला ।
करोति सर्वत्र विलोक्य कर्दमं पयोदमाला पदमासानुषु ॥ ४२ ॥
ध्रुवं याचित्कथया पयोनिधेः स्तनद्भिरः सरितः प्रकोपिताः ।
प्रयान्ति सद्यः कलुषाः सरित्पात तथा हि कोलाहलमांसलोर्मयः॥४३॥
तरंगिणी नाथसमागमत्वराप्रधाविताः शैलनदीभिरन्तरे ।
निरुध्यमानाः कलहं महारवैर्विमुद्रयन्तीय समुद्रवल्लभाः ॥ ४४ ॥
जलेन भिन्ना किती वसुंधरा मदर्पितेनेति परीक्षितुं घनाः ।
महाम्बुधाराभिरधीरलोचने क्षितौ शलाका इव निक्षिपन्त्यमी ॥ १५ ॥
XIII. 41. क्षत Ms. - XIII. 42. यं नमन्ती Ms.