सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स°३]
११३
विक्रमादेवचरितम्

हपरंसिषुः श्वासममीरणा इव प्रबुद्धदावानलबन्धबोनिलाः ॥ १९ ॥
गतायुषि ग्रीष्ममहोम्मडम्बर दिनेपि चञ्चत्पुलकैविलासिभिः ।
कुचस्थलीचन्दनलेपपङ्किलप्रियाङ्कपालीसुखमन्वभूयत ॥ १२ ॥
परस्परश्वाससमीरघट्टनटक्कपोलस्थलघर्मबिन्दुभिः ॥
अपि प्रदोषावसरे विलासिभिः करम्बितान्योन्यभुजैरसुप्यत ॥ १३ ॥
अपङ्कजं स्रस्तरमस्तचन्दनं विलाससंमदममन्दमाश्रिताः ।
शनैर्निदाघस्य नामदर्शयन्प्रतापहानिं हरिणायतेक्षणाः ॥ १४ ॥
अपश्यदस्मिन्समये महीपतिः पयोदखण्डं मिलितार्कमण्डलम् ।
सकुण्डलं धारिमुचामनेहसः कुतोपि मूर्धानमिवार्धनिर्गतम् ॥ १५ ॥
निदाघनिःशेषिततोयसंपदः समुद्धृतं वारिदिदृक्षया सुरैः ।
नभःस्त्रयन्त्या इष पङ्कमङ्कतः क्षमापतिबलपयोदमेक्षत ॥ ९६ ॥
शनैरवाप्तोषचयं पयोमुचं विलोक्य कौतूहललोललोचनाम् ।
अथाङ्कपर्यङ्ककृतास्पदां प्रियामवोचत क्ष्मातलमीनलान्छनः ॥ १७ ॥
नभस्तलारण्यतमालमालिका महीभृतां मूर्खसु मूर्धजावलिः ।
तडित्प्रदीपाञ्जनपुञ्ज संनिभा विभाव्यतां सुख नवाभ्रमण्डली ॥ १८ ॥
घनोपरोधात्तरलाक्षि लक्ष्यते मलीमसं मण्डलमुष्णदीधितेः ।
क्षणप्रभादीपसमुत्थकज्जलग्रहोत्कर्षापितकर्परोषपम् ॥ १९ ॥
मृगाक्षि पश्य प्रसभं नमश्चरीविलास कृष्णागुरुधूपमण्डलैः ।
करम्बितः षट्टदमेचकैरिव प्रयाति सद्यः प्रचुरत्वमम्बुदः ॥ २० ॥
अनेन नूनं जलधेः समुद्धृतं विचित्ररत्नाङ्कुरदन्तुरं पयः ।
अनेकवर्णाञ्चितमन्यथा कथं पयोमुचा निर्मितमिन्द्रकमुकम् ॥ २१ ॥
ध्रुवं दिवि ग्रासगृहीत पन्नगस्फुरत्फणारत्नमयूखकन्दलैः ।
घनोन्मुखानां शिखिनां मुखोद्गतैरकारि शातक्रतवं शरासनम् ॥२२॥
नितम्बबिम्बेषु वसुन्धराभृतां घनाः स्फुरन्नीलदुकूलविभ्रमाः ।