पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमादेवचरितम् |

कञ्चिन्नित्योपरि विष्टरस्थ दुर्वारकामग्रह
मोहितो भूत् ॥ ८५ ॥
कण्ठस्फुरत्पञ्चमकाकलीकः कश्चिद्यलीकस्मितमाततान |
संग्रथ्य कश्चित्कतिचित्पदानि गाथाकवित्वं कथयांबभूव || ८६ ।।
वैतालिकानां तुमुलं निवार्य ततः कुमार्याः सुकुमारकण्ठी ।
उदाजहार प्रतिहाररक्षी क्रमेण चक्रं पृथिवीपतीनाम् ॥ ८७ ॥
अर्धेषु यो मूर्धसु खण्डितेषु खड्गं कठोराहतिकुण्ठधारम् ।
श्रीकण्ठकेयूरभुजंगराज फणामणौ घर्षितुमाचकाङ्क्ष ॥ ८८ ॥
कृत्वा हठादामकरे हराई कण्डूलदोर्मण्डलदुर्मदो यः ।
हिमालयोन्मूलनकौतुकेन भेजे भुजं दक्षिणमुत्तरंगम् ॥ ८९ ॥
लङ्कापतेस्तस्थ मुखाम्बुजानि भोगास्पदं यस्य शिलीमुखानाम् ।
रामस्य तस्यैष कुले कुमारः कुमारि नेत्रप्रणयी तवास्तु ॥ ९० ॥
अनेन सार्धं सरयूषनान्ते कूजन्मपूरीमुखरे विहृत्य |
विलासवातायन सेवन श्लाघ्यामयोध्यां नगरी विधेहि ॥ ९१ ।।
तयोपदेशः स कृतः कुमार्यो वृथागमनीच इवोपकारः ।
प्रेमाणि जन्मान्तरसंचितानि प्रादुर्भवन्ति क्वचिदेवमेव ।। ९२ ।।
प्रदर्शयामास ततः कुमायां क्षितीशमन्यं प्रतिहाररक्षी ।
चूतानुबन्धे मधुपाङ्गनाया मुग्धं मधुश्रीरिव कर्णिकारम् ॥ ९३ ॥
यस्याइवे साहसलाञ्छनस्य मौर्वीरंषः प्राप्य बिलोदराणि ।
क्षणेन पातालतलस्थितानां शौण्डीर्यवात्तां कथयांबभूव ॥ ९४ ॥
सोयं रणे नर्तयिता कबन्धान्मदान्धभूपाल सहस्त्र सेव्यः ।
विलोक्यतां सुन्दारे चेदिराजस्त वास्तु दृष्टिः स्मरवैजयन्ती ॥ ९५ ॥
तयेत्यमुक्ता न परं कुमारी नालोकयामास विलासिनं तम् ।
ताम्बूलमुत्सृज्य मुखाम्बुजस्थं निकारमार्गेण निराचकार ॥ ९६ ॥
अथान्यमुद्दिश्य नरेन्द्रपुत्र मुत्तस्तसारङ्ग

विलोलदृष्टिः । ८०