पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ९] विक्रमाङ्कदेवचरितम् ।

सत्यैव सामूदनुरागवार्त्ता चिरात्प्रसन्नो भगवाननङ्गः ॥ ७३ ॥
जधान पादेन सखीं सखेलमाकृष्य हारं मुहुरामुमोच ।
सा दर्शने कुन्तलपार्थिवस्य न कारिता किं मकरध्वजेन ॥ ७४ ॥
सदीयवकेन्दुषिलोकनेन सान्द्रोल्लसद्रागपयोनिधीनाम् ।
तत्रागतानां पृथिवीपतीनामासन्विचित्राणि विचेष्टितानि ॥ ७५ ॥
उत्कृष्यमाणं निजहारदाम समस्तभूपालविभूषणेभ्यः ।
वक्षःस्थलेनोन्नमितेन दूरं कश्चिन्नरेन्द्र प्रकटीचकार ॥ ७६ ॥
सावज्ञमुचार्य सुवर्णसूत्रं देहप्रमानिङ्गतशोममेकः |
मुक्ताकलापं हृदये बबन्ध पर्तिवराप्राप्तिमनोरथं च ॥ ७७ ॥
चूडामणेः कोपि परिश्लथस्य स्थाने निवेशाय कृतामिलापः |
लोलासरोजं मुकुटे बबन्ध पुराङ्गनाभिः परिहास्यमानः ॥ ७८ ॥
मञ्चान्तरे संततमग्रपादं प्रसारयामास सगर्वमेकः ।
हस्त्रासिधेनुश्रमसूचनार्थमान्दोलयामास च पाणियुग्मम् ॥ ७९ ॥
अनुग तस्वेदमापे क्षितीन्दुरुप कर्पूररजोभिरङ्गम् ।
कर्णद्वये कुण्डलयांश्चकार वृधैव कश्चित्परिवर्तनानि ॥ ८० ॥
जघान ताम्बूलकरडवाहं करेण कूजदूलयेन कश्चित् ।
लिलेख ताम्बूलदलं नखैश्च प्रतारितः पुष्पशरासनेन ॥ ८१ ॥
गोष्टीमिषेण स्त्रयमेषमेव प्रकाशयन्त्राचि पटुत्वमन्यः ।
भाकृष्य ताम्बूलकर ङ्कमध्यात्कर्पूरदानं विदधे बहुभ्यः ॥ ८२ ॥
हेमासनं वस्त्रनिवेशनेन तुङ्गत्वमानीय वृथा ववलग |
नवीनतारुण्यनिवेदनार्थमजातकूर्चेन मुखेन कश्चित् || ८३ ॥
निक्षिप्य ताम्बूलकरङ्कवाहपृष्ठे शरीरं सविलासमेकः ॥
उदञ्चित भूलतिकापताकमकारणादेव मुखं चकार ॥ ८४ ॥
जृम्भावशोत्तम्भितहस्तयुग्मसंघट्टलीला स्फुटदङ्गुलीकः ।

७९