पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४ )

भाषा

 पण्डितो को भी आकर्षित करने वाली नवीन कल्पना या काव्यरचना कि कुशलता मुखों को आनन्दित नहीं कर सकती । मोती में छेद करने की सुई टाकी का काम नहीं कर सकती । अर्थात् सूक्ष्म बातो को कुशाग्रबुद्धि ही समझ सकता है । स्थूल बुद्धिवालो को उनसे कोई सुख नही मिलता ।

कथासु ये लब्धरसाः कवीनां ते नानुरज्यन्ति कथान्तरेषु ।
न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ॥१७॥

अन्वयः

 ये कवीनां कथासु लब्धरसाः ते कथान्तरेषु न अनुरज्यन्ति । ग्रन्थिपर्णप्रणयाः कस्तूरिकागन्धमृगाः तृणेषु न चरन्ति ।

व्याख्या

 ये जनाः कवीनां कान्तदर्शिनां कवीनां कथासु रचनासु लब्धः प्राप्तो रसः आनन्दो यैस्ते लब्धरसाः अनुभूताल्हादास्ते कथान्तरेष्वन्यासु कुकविरचनासु नाऽनुरज्यन्ति माऽनुरक्ता भवन्ति । ग्रन्थिपर्णोनाम सुगन्धिक्षुपविशेषः ‘ग्रन्थिपर्णो शुकं बर्हपुष्पं स्थौणेयकुक्कुरे' इत्यमरः । ‘गठिवन' 'भटोरा' इति भाषायां ख्यातः। तस्मिन् प्रणयः स्नेहो येषां ते, कस्तूरिकायां गन्धो येषु ते मृगा हरिणाः कस्तूरिमृगास्तृणेषु घासेषु ‘शष्पं बालतृणं घासः' इत्यमरः । न चरन्ति न भक्षणप्रीतिं जनयन्ति । अत्र दृष्टान्तालङ्कारः ।

भाषा

 जो लोग अच्छे कवियों के काव्य को पढकर आनन्द प्राप्त कर चुके हैं वे अन्य छोटे मोटे कवियो के काव्यों में आनन्द नही प्राप्त कर सकते । गठिवन नाम के सुगन्धित पौधे को खाने के प्रेमी कस्तूरिमृग अन्य घासपात नही चरते ।

जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु के वराकाः ।
प्राप्ताग्निनिर्वापणगर्वमम्बु रत्नांकुरज्पोतिषि किं करोति ॥१८॥

अन्वयः

जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु वराकाः के । प्राप्ताग्निनिर्वापणगर्वम् अम्बु रत्नांकुरज्पोतिषि कि करोति ।