पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३ )

व्याख्या

 पदानां शब्दानां रसगुणालङ्कारादिप्रत्यायकत्वेन चमत्कारित्वं प्रौढस्तस्याः प्रकर्षेणोत्कटत्वेन पुराणी प्राचीना या रीतिरथवा पुराणानां कवीनां या रीतिः परिपाटी तस्या व्यतिक्रमः परित्यागः श्लाघ्यतमः प्रशस्यतमो भवति । अत्युन्नत्या स्फोटितानि दार्ढ्यातिशयात्प्रोटितानि विदारितानीत्यर्थः कञ्चुकानि कुचावरणान् शुकानि यैस्तानि कान्तानां प्रेपसीना कुचमण्डलानि स्तनमण्डलानि वन्द्यानि स्तुत्यानि भवन्ति । अत्र दृष्टान्तालङ्कारः ।

भाषा

 प्रौढि प्रकर्षों से भर्यात् स गुण अलङ्कार आदि की विशिष्ट चमत्कृति के प्राबल्य से, प्राचीनकाल से प्रचलित अथवा प्राचीन कवियो द्वारा प्रयुक्त पद- विन्यास का यदि त्याग किया जाए तो वह प्रशंसनीय है । अत्यन्त उच्चता तथा काठिन्य से चोली को फाड देने वाले रमणिय के स्तनमण्डल सराहून करने योग्य होते हे ।।

व्युत्पत्तिरावर्जितकोविदाऽपि न रञ्जनाय क्रमते जडानाम् ।
न मौक्तिकछिद्रकरी शलाका प्रगल्भते कर्मणि टङ्किकायाः ॥१६॥

अन्वयः

 आवर्जितकोविदा अपि व्युत्पत्तिः जडानां रञ्जनाय न क्रमते । मौक्तिकच्छिद्भकरी शलाका टङ्किकायाः कर्मणि न प्रगल्भते ।

व्याख्या

 आवर्जिता आकृष्टाः कोविदाः पण्डिताः विद्वान्विपश्चिद्दोषज्ञः सत्सुधीः कोविदो बुघः । धीरो मनीषी ज्ञः प्राज्ञः सख्यावान्पण्डितः कविः' । इत्यमरः । पश्च साऽऽतकोविदापि पण्डितरन्नमधिकऽपि विशिष्टैशत्यर्थः । व्युत्पतिर्नू तनकल्पना लौकिकरचनाकौशले जडाना मूर्खाणां रञ्जनाय प्रसादार्थे न क्रमते न समर्था भवति। मौक्तितकेषु मुक्तासु च्छिद्रं रन्ध्रं ‘छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं यपा सुषिः इत्यमरः । करोतीति रन्ध्रकरी शलाका सुची टङ्किकायाः पाषण दारणलोहकीलस्य टङ्क पाषाणदारणः' इत्यमरः । कर्मणि कठिनपाषणविदारणं कर्तं न प्रगल्भते न समर्था भवति । अत्र दृष्टान्तरलङ्करः ।