पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २८५ )

अन्वय:

 अनयपङ्कशङ्कितः सः प्राप्तम् अपि तद्वलं सहसा न जघान । अप्र तर्क्यभुजवीर्यशालिनः तथाविधाः सङ्कटे अपि अगहनाः (भवन्ति) ।

व्याख्या

 अनप एवाऽनीतिरेव पङ्क कर्दमस्तस्मच्छङ्कित शङ्कायुक्तस्स विक्रमाङ्क देव" प्राप्त पश्चादागतमपि तस्य सोमदेवस्य बल संन्य तद्बल 'अनीकिन बल सैन्य चक्र चानीकमस्त्रियाम्’ इत्यमर । सहसा झटिति न जघान न सहृतवान् । अप्रतर्क्यमचिन्त्य भुजयोर्वी4ष्यणोर्वार्यै पराक्रमस्तेन शालन्ते शोभन्त इत्यप्रतर्क्यभुजवी र्यशालिनोऽचिन्त्यभुजशक्तिशोभितास्तथाविघा विक्रमाङकदेवसदृशा सङ्कटैप्पा पत्तावप्यगहना निराकुला भवति । अत्राप्यर्थान्तरन्यासोऽलङ्कार ।

भाषा

 अनीति रूपी कीचड से शङ्कित विक्रमाङ्कदेव ने सेना के पास में आ जाना पर भी उसका सहार नहीं किया। क्योकि कल्पनातीत भुजबल से शोभित विक्रमाङ्कदेव जैसे लोग आपत्ति आ जाने पर भी घबडाते नहीं ।

 

अन्तकः प्रतिभटक्षमाभृतां निर्दयप्रहणनोद्यतं ततः ।
तन्मदद्विरदपादचूर्णितं सैन्यमेककवलं चकार सः ॥७॥

अन्वय:

 ततः प्रतिभटक्षमाभृताम् अन्तकः सः निर्दयप्रहणनोद्यतं सैन्यं तदन्मद- द्विरदपादचूर्णितं (सत्) एककचल चकार ।

व्याख्या

 ततस्सेनागमनान्तर प्रतिभटा शत्रुरूपा ये क्षमाभृत" पूर्वीपालास्ते प्रति पक्षभूपालानामन्तको यम स विक्रमाङ्कदेवो निर्दयं दयारहितं क्रूरतापूर्वक- मित्यर्थ । यत्प्रहणनं मारणं तदर्थमुद्यतं प्रवृतं सोय यलं ते प्रसिद्धा मदद्विरदा मदान्धा गजास्तेषां पादैश्चरणैश्चूर्णितं मदितं सदेककनलमेकग्रासं क्षणमात्रेणैव क्षीणमित्यर्थ । चकार कृतवान्। पृष्ठत समागतं सोमदेवसैन्यं सहसाडडत्रम णोद्यतं दृष्ट्वा स्वगजपादघातद्वारा नाशितवानिति भावः। रूपमलङ्कारः ।