पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २८४)

भाषा

 भय रूपी कीचड में फसे हुए सोमदेव के मन को अनेक युद्ध के बोझ को खीचने में समर्थ, उसके मदोन्मत्त हाथी भी खीच कर बाहर न कर सके । अर्थात् विक्रमाङ्कदेव के भय से पीड़ित सोमदेव अनेक युद्ध में विजय प्राप्त कराने वाले हाथियो के (शक्तिशाली गज सेना के) रहते हुए भी, शान्ति न प्राप्त कर सका ।


स व्यसर्जयदथ क्वथन्मनाः पुष्कलं बलमनुष्य पृष्ठतः ।
किं न सम्मवति चर्मचक्षुषां कर्म लुब्धमनसामसात्विकम् ॥५॥

अन्वयः

 अथ क्वयन्मनाः सः अमुष्य पुष्टतः पुष्कृतं बलं व्यसर्जयत् । चर्मचक्षुषां लुब्धमनसां किम् असात्विकं कर्म न सम्भवति ।}}

 

व्याख्या

अथाऽनन्तरे ‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वषो अय' इत्यमरः । क्वयड्टू यमानं मनश्चित्तं यस्य स सोमदेवोऽमुष्य विक्रमाङ्कदेवस्य पृष्ठतः पश्चात् पुष्कलं पर्याप्तं “श्रेयान् श्रेष्ठः पुष्कलस्यासत्तसश्चातिशोभने' इत्यमरः । बलं सैन्यं व्यसर्जयत् प्रेषितवान् । चर्मणश्चक्षूंषि येषां ते तेषामदूरदशनां लुब्धं लोभाकृष्टं मनो येषां ते तेषां लुब्धचेतसां किमसात्त्विकं तामसं कर्मे कार्यं न सम्भवति, अपि तु सर्वमेव तामसिक कार्यं सम्भवतीति भावः । अत्राऽर्थान्तर- न्यासोऽलङ्कारः ।

भाषा

इसके अनन्तर पीडित हृदय सोमदेव ने विक्रमाङ्कदेव के पीछे एक बड़ी पलटन भेज दी । चर्मचक्षु अर्थात् अदूरदर्शी तथा लोभी मनुष्य कौन तामसिक कार्य नही कर सकते अर्थात् वे सब प्रकार के दुष्कर्म कर सकते है।


ग्नाप्तमप्यनयपङ्कशङ्कितस्तद्वलं न सहसा जघान सः ।
अप्रतर्क्यभुजवीर्यशालिनः सङ्कटेष्यगहनास्तथाविधाः ॥६॥