पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

(( १४८ ) )


भाषा

 राजकुमार के अलौकिक शरीर की परछाही, पास की रत्नों से जडी घर की साफ दीवारों पर पड़ने के कारण, मानो दिशाओं से वह राजपुत्र, यह समझ कर कि यह बड़ा होने पर कृतज्ञता से हमारी सेवाओं को स्मरण करेगा, गोदों में लिया हुआ शोभित होता था ।

अकथयदघनीन्दोर्नन्दनोत्पत्ति वार्तां
  प्रथमममरवृन्दानन्दिनान्दीनिनादः ।
तदनु तदनुरूपोत्साहतः सुन्दरीणां
  त्वरितगमनलीलागङ्गदो वाग्विलासः ॥८६॥

अन्वयः

 अमरवृन्दानन्दिनान्दीनिनादः प्रथमम् अवनीन्दोः तन्दनोत्पत्तिर्वाताम् अकथयत्। तदनु तदनुरूपोमाहतः सुन्दरीणां त्वरितगमनलीलागद्गदः वाग्विलासः (अकथयत्) ।

व्याख्या

 अमरवृन्दानां देवसमूहानामानन्दी सुखप्रदो नान्दीनिनादो मङ्गलध्वनि" प्रथमं पूर्वमवनीन्दोराहवमल्लदेवनृपं (कर्मणि षष्ठी)नन्दनस्य पुत्रस्योत्पत्तेर्जन्मनो वार्तां वृत्तान्तं वार्तां प्रवृत्तिर्तृत्तान्त उदन्तः' इत्यमरः । अकथयदसूचयत् । तदनु तत्पश्चात् तस्य पुत्रजन्मनोऽनुरूपो योग्यो य उत्साहो हर्षातिरेकस्तस्मात् 'पञ्चम्यास्तसिल् । सुन्दरीणामन्तपुरललनानां वर्तं शीघ्रञ्च तद् गमनं तस्य लीलया विलासेन मद्गदोऽविस्पष्टः कम्पमानश्च वाग्विलासः कलकलशब्दः पुत्रोत्पत्तिवृत्तान्तं राज्ञेऽकथयत् न्यवेदयत् । अत्राऽक्रमातिशयोक्त्यलङ्कारः । मालिनीच्छन्द: । "जननमयययुतेयं मालिनी भोगिलोकैः” ।

भाषा

 देवताओ की आनन्द देने वाली मङ्गलध्यति के हौरे ने राजा को पहिले पहिले पुत्र उत्पन्न होने की सूचना दी । इसके बाद पुत्रोत्पत्ति के अनुरूप हर्ष से अन्तः पुर की ललनाओ के शीघ्रता से इधर उधर चलते २ गद्गद होकर बोले हुए कलकल शब्दो ने राजा को पुत्रोत्पत्ति से सूचित किया ।