पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

।। श्री ॥


महाकवि श्री विल्हण विरचितं

विक्रमाङ्कदेवचरितम्

तृतीयः सर्गः

अथ नवजातरजकुमारं वर्णयति कवि:


स विक्रमेणाद्भुततेजसा च चेष्टाविशेषानुमितेन बालः ।
श्रीविक्रमादित्य इति क्षितीन्दोरवाप विख्यातगुणः समाख्याम् ॥१॥

अन्वयः

 स विख्यातगुणः बालः चेष्टाविशेषानुमितेन विक्रमेण अद्भुततेजसा च क्षितीन्दोः श्रीविक्रमादित्यः इति समाख्याम् अवाप ।

व्याख्या

 सः प्रसिद्धो विख्यातगुणो प्रसिद्धगुणो बालो बालकश्चेष्टाविशेषेणाऽऽकारेङ्गि- तादिव्यवहारेणाऽनुमितो वितातस्तेन विक्रमेण शौर्येणाऽद्भुततेजसाऽऽश्चर्यचुम्बि प्रतापेन च क्षिते पृथिव्या इन्दुश्चन्द्र प्रजाल्हादकत्वात्) तस्मादाहवमल्लदेवनृपात् श्रीविक्रमादित्य इति विक्रमेण पराक्रमेण तेजसा चाऽदित्यस्वरूप इति समामन्व र्यामाख्यां नाम 'आख्याव्हे अभिधानञ्च नामधेयञ्च नाम च ' इत्यमरः अवाप प्राप ।

भाषा

 प्रसिद्ध गुणो से युक्त उस बालक ने अपने विशेष लक्षणो से अनुमित आश्चर्यं कारक तेज तथा भावि विक्रम सा परिचय देकर पृथ्वी के चन्द्र स्वरूप राजा आहवमल्लदेव से विक्रम में और तेज में सूर्य की समानता के सूचक भी विक्रमादित्य यह अन्वपंच नाम पाया ।