पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४९ )


चञ्चचारणदीयमानकनकं संनद्धगीतध्वनि
  स्फूर्जद्गाथकलुण्ठ्यमानकरटि प्रारब्धनृतोत्सवम् ।
}}

पूर्णं मङ्गलतूर्यदुन्दुभिरवैरुतालवैतालिक
  श्लाघालङ्घितपूर्वपार्थिवमथ क्ष्माभर्तुराप्तोद्गृहम् ॥ la०॥
}}

अन्वयः

 अथ क्ष्माभर्तुः गृहं चञ्चच्चारणीयमानकनकं संनद्धगीतध्वनि स्फूर्ज- द्गाथकलुण्ठ्यमानकरटि प्रारव्धनुत्तोत्सवं मङ्गलतूर्यदुन्दुभिरवैः पूर्णम् उत्तालवैतालिकश्लाघालङ्घितपूरर्वपार्थिवम् आसीत् ।

व्याख्या

 अय पुत्रोत्पतिवार्ताप्रसरानन्तर क्ष्माभर्तुः पृथ्वीपतेराहवमल्लदेवस्य गृहं प्राप्ता- दश्चञ्चद्भ्यो हर्षेण चञ्चलचित्तेभ्यश्चारणेभ्यः कुशीलयेभ्यो ‘चारणास्तु कुशी स्रवाः' इत्यमरः। दीयमानं वितीर्यमाणं कनकं सुवर्णं यस्मिन्तत्, संनद्धो जायमानो गीतानां स्वीकर्तुंकगायनाना ‘सोहर इतिं लोके प्रसिद्धम्’ ध्वनिः शब्दो यत्र तत्, स्फूर्जन्तो । हर्षेण विलसन्तो गायका गायकास्तैलुण्ठ्यमान हठाद्गृह्यमाणाः करटिनो हस्तिनो यत्र तत्, प्रारब्ध समारभ्यो नृत्तोत्सवो नृत्यसमारम्भो यत्र तत्, मङ्गलं मङ्गलरूपस्तूर्यदुन्दुभिरवो वाद्यविशेषशब्दस्तैः पूर्णे परिपूर्णम्, उत्ताला अत्युच्चैः शब्दायमाना वैतालिकाः स्तुतिपाठकास्तैः श्लाघया प्रशंसया लङ्घिता अतिक्रान्ता अघ रीकृता इत्यर्थः। पूर्वपार्थिवाः पूर्ववर्तिनृपा यस्मिन्तदाऽसीत् । तादृशं गृहमासीदिति भावः । शार्दूलविक्रीडितच्छन्दः । सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ।

भाषा

 पुत्र होने की खबर फैलने के बाद राजा के महल में अत्यन्त प्रसन्न नटो को इनाम में सोना दिया जाने लगा, सोहर का गान प्रारम्भ हो गया, हर्ष से मस्त गवैये हाथियों को जबर्दस्ती इनाम में लेने लगे, नाच अरम्भ हो गया, मङ्गलमम तुरही और दुन्दुभी का नाद छा गया और बडे ऊंचे शब्दो में स्तुति-पाठक लोग पूर्ववर्ती राजाओ से तुलना करते हुवे, इस राजा का वर्णन अधिक बढ़ाकर करने लगे ।

अथ संपते कर्मण्यास्थापरेण पुरोधसा
  कथितमवनीनाथः सर्वं विधाय विधानवित् ।
}}

प्रति मुहुरसौ सूनुस्पर्शान्महोत्सवमन्वभू
  दिह हि गृहिणां गार्हस्थस्य प्रधानमिदं फलम् ॥६१॥
}}