( ९६ )
तडागे प्रतिबिम्बानां प्रतिच्छायानां गालया पंक्त्या पारिजातैरनेककल्पवृक्षैः सहितैं युक्तां श्रियं शोभां दर्शयन् विज्ञापयन् सुरैर्देवेर्गृहीतसारस्याऽपहृतकल्प वृक्षस्य पयोनिधेः समुद्रस्य विडम्बनामुपहासमिव कुरुते । समुद्रात्तु पारिजातस्यै कस्यैवोत्त्पतिः सोऽपि देवैरपहृत इति समुद्रो निस्सारः । अस्मिन्तडागेत्यनेकेकल्पवृक्षाः परिदृश्यन्ते केन।ऽपि हृताश्च नेति समुद्रात्स्वोत्कर्षे परिहासस्य बीजम् । अत्रोत्प्रेक्षालङ्कारो गम्यः ।
भाषा
जिस कल्याणपुर का तालाब, तटपर के वृक्ष की परछाही पड़ने से अपने भीतर अनेक कल्पवृक्ष होने की शोभा दिखाता हुआ, देवताओ द्वारा कल्पवृक्ष निकाल लिए गए हुए समुद्र की मानो हंसी उड़ा रहा है ।
प्रतिक्षणं क्षालितमन्युना रणे प्रयुक्तरक्षस्य नृपेण मानिना |
अन्वयः
शतमन्युरक्षिता पुरी रणे प्रतिक्षणं क्षालितमन्युना मानिना नृपेण युक्तरक्षरस्य पुरप्राग्रहरस्य यस्य कक्षा न गाहते ।
व्याख्या
शतं मन्यवो क्रतवो कोपाश्च यस्य सः शतमन्युरिन्द्रः 'मन्यर्दैन्ये क्रतौ क्रुधि ’ इत्यमरः । 'जिष्णुलेखर्षभः शक्रशतमन्युर्देवस्पतिः ।' इत्यमरः । तेन रक्षिता पालिता पुरी अमरावतीनगरो रणे युद्धे प्रतिक्षणं निरन्तरं क्षालितो दूरीकृतो मन्युः क्रोधो येन स तेन निर्मन्युना क्रतुरहितेन वा मानिना सगर्वेण, ‘गर्वोभिमानोऽहङ्करोमानश्चित्तसमुन्नतिः ।' इत्यमरः । नृपेण राज्ञाऽऽहवमल्ल देवेन प्रयुक्ता वृता रक्षा यस्य तस्य पुराणां 'निर्धारणे षष्ठी' नगराणां मध्ये प्राग्रहरस्य श्रेष्ठस्य यस्य कल्याणपुरस्य कक्षां साम्ये न गाहते न प्राप्नोति । शतक्रतुकारिणा शतकोपकारिणा चेन्द्रेण यत्कार्यं क्रियते तत्कार्यमनेनाऽऽहवमल्ल देवराजेन निर्मन्युनेव प्रज्ञरहितेनाऽपि यज्ञानुष्ठानादिकं विनैव साध्यत इतिभावः । अत्र व्यतिरेकालङ्कारः । ‘अधिक्यमुपमेयस्पोपमानान्न्यूनता तया ।
भाषा
एक सौ यज्ञ करने वाले और सैकडो बार प्रोध करने वाले इन्द्र से रक्षित