पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ९७ )


अमरावती पुरी, युद्धों में लगातार शत्रुओ का सहार करने से प्रशान्त क्रोध वाले, या यज्ञो से अपनी कार्य-सिद्धि की अपेक्षा न करने वाले अभिमानी आहवमल्लदेव राजा से रक्षित, पुरो में श्रेष्ठ कल्याणपुर की बराबरी नही कर सकती है ।

करोति गण्डस्थलचन्द्रमण्डले विलासवेल्लन्मणिकुण्डलातिथौ ।
न यत्र वित्रस्तकुरङ्गचक्षुषां निघर्षभीत्यैव पदं कुरङ्गकः॥११२॥


अन्वयः

 यन्न वित्रस्तकुरङ्गचक्षुषां विलासवेल्लन्मणिकुण्डलातिथौ गण्डस्थल चन्द्रमण्डले कुरङ्गकः निघर्षभीत्या इव पदं न करोति ।

व्याख्या

 यत्र कल्याणपुरे विघ्रस्तानि स्त्रीणा विशालनेत्रकान्त्या भीतानि कुरङ्गाणा मृगाणां चक्षुषि नयनानि याश्रयस्तासा पुराङ्गनाना विलासेन विभ्रमेण वेल्लन्ती तस्ततः परिकम्पमानानि मणिनिर्मितकुण्डलानि कर्णभूषणान्येवाऽतिथयो यस्य तस्मिन् , क्रीडाचञ्चलमणिनिर्मितकर्णावतसविभूषिते गण्डस्थलमैव चन्द्रमण्डल शुभ्रत्वाद्वर्तुलत्वादतिशयशोभास्पदत्वाद्वा तस्मिन् कुरङ्गकश्चन्द्रमण्डलस्थित कलङ्करूपो मृगौ निघर्षस्य कुण्डलसघर्षजन्याङ्गछेदस्य भीत्या भयेन पद स्थानं न करोति तत्र न गच्छति । पुराङ्गनाना मुखानि निष्कलङ्कानीति भावः । अत्रोत्प्रेक्षालङ्कारः ।

भाषा

 जिस नगर मे, अपनी बडी २ सुन्दर आलो से मृगो के नेत्रो को त्रस्त । करने वाली स्त्रियो के, खेल में हिलने वाले कान के आभूषण से शोभित गण्ड- स्थल (गाल) रूपी चन्द्रमण्डल में चन्द्रमा का कलङक रूप मृग, कर्णभूषणो की रगड के भय से नही आता । अर्थात् चन्द्र सदृश कपोल होने पर भी इन्द्र सकलङ्क है किन्तु उनका गण्डस्थल निष्कलङ्क है ।

समुच्छलन्मौक्तिककान्तिवारिभिः सुवर्णकुम्भैः सुरसद्ममूर्धगैः ।
प्रपा पिपासापरितापशान्तये नभश्चरीणामिव येन निर्मिता ॥१३॥