पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ९५ )

'पहिचाने जाने पर चादी की कपूर की डिविया के सदृश शुभ्रवर्णं चन्द्रमा वहां है, ऐसा चन्द्रपत्नी रोहिणी को सन्देह हुआ करता था।

यदीयलीलास्फटिकस्थलीभुवाममुग्धदुग्धाब्धिसमत्विषां पुरः ।
दावाग्निनिर्दग्धवनस्थलोपमं विलोक्यते कञ्जलकश्मलं नभः ॥६॥

अन्वयः

 अमुग्धदुग्धाब्धिसमत्विषां यदीयलीलास्फटिकस्थलीभुवां पुरः कज्जल कश्मलं नभः दवाग्निनिर्दग्धवनस्थलोपमें विलोक्यते ।

व्याख्या

 अमुग्घः स्वच्छश्चासो दुग्धाब्धिः क्षीरसागरस्तेन समाः समानास्त्विषः कान्तयो यासां ता पदीयाः ’कल्याणपुरसम्बधिन्यो लीलाया विलासस्य कीडार्थ मारचिताः स्फट्किस्थल्यः स्फटिकमणिनिर्मितभूमयस्तासां पुरोऽग्रे कञ्जल वत्कश्मलं श्यामवर्ण नभ आकाश दवाग्निना दावानलेन निर्दग्धं भस्मीकृतं वनस्थलमरण्यप्रान्तस्तस्योपमासादृश्य यस्य तद्वद्विलोक्यते दृश्यते । स्फटिक- स्यल्याकाशयोर्नैर्मल्यसामान्यत्वेऽपि स्फटिकस्थल्याः शुभ्रवर्णत्वादधिकसौन्दर्यं 'मिति भावः। ततश्च व्यतिरेकध्वनिः ।

भाषा

 निर्मल क्षीर सागर के समान शुभ्र कान्ति वाले जिस कल्याणपुर के स्फटिक के बने हुवे कीडाङ्गणो के सामने कज्जल के ऐसा काला आकाश दावानल से जले हुए वनस्थल के समान दिखाई देता था ।

तटद्रुमाणां प्रतिबिम्बमालया सपारिजातामिव दर्शयञ्छ्रियम् ।
स यत्तडागः कुरुते विडम्बनां गृहीतसारस्य सुरैः पयोनिधेः ०१॥

अन्वयः

 सः यत्तडागः तटद्रुमाणां प्रतिविम्बमालया सपरिजातां श्रियं दर्शयन् सुरैः गृहीतसारस्य पयोनिधेः विडम्बनाम् इव कुरुते ।

व्याख्या

 सः प्रसिद्धो यस्य कल्याणपुरस्य तडागस्सरस्तटद्रुमाणा तीरस्थवृक्षाणां