पृष्ठम्:वास्तुविद्या.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां अनन्धर्क्षे सुलग्नादौ चुल्लीं कृत्वानुमारुतम् । तत्र लोष्टानि सन्दह्यात् सान्तरं क्रमशो न्यसेत् ॥ २८ ॥ काठैः पलालभाराद्यैराचिता स्यान्निरन्तरा । बहिराच्छादयेत् सम्यमत्सया च विलेपयेत् ॥ २९ ॥ तन्मुखेष्वग्निमाधाय दशाहं पक्षमेव वा । संस्कृत्य ज्वलने शान्ते लोष्टानि पुनरुद्धरेत् ॥ ३० ॥ अथवान्यप्रकारेण लोष्टदाहो विधीयते । शुष्कचिञ्चादिशाखाभिरास्तीर्य सुमुहूर्त ॥ ३१ ॥ इन्धनानि च विन्यस्य पलालानि च विन्यसेत् । तस्मिन् लोष्टानि विन्यस्य पलालैश्छादयेत् पुनः ॥ ३२ ॥ पलालाभासकैः पश्चाद् बीह्याभासैस्तुवैस्तथा । आच्छाद्याद्भिरथासिञ्चेच्छाखां प्रज्वालयेत् पुनः ॥ ३३ ॥ ७६ २ उद्धृत्य ज्वलने शान्ते गेहमाच्छादयेद् बुधः नीव्रलोष्टानि विन्यस्य तुर्यश्राण्यपि विन्यसेत् ॥ ३४ ॥ यश्राणि विन्यसेत् पश्चादेवमेव पुनः पुनः । क्रूरलोष्टानि विन्यस्य यथाशोभं यथामति ॥ ३५ ॥ कोणपारावतं न्यस्य कोणलोष्टानि विन्यसेत् । पार्श्वयोः पुटलोष्टानि ऊर्ध्वलोष्टानि विन्यसेत् ॥ ३६ ॥ १. 'शल्भा' घ. ङ. पाठ: २. 'सेत् । कू' घ. ङ. छ. पाठ: ३. ‘स्य कोणलोष्टानि विन्यसेत् । पार्श्व' घ. ङ.; 'स्य तुर्यश्राण्यपि विन्यसेत् । यश्राणि विन्यसेत् पश्चादेवमेव पुनः पुनः । को' छ, पाठः