अनन्धर्क्षे सुलग्नादौ चुल्लीं कृत्वानुमारुतम् ।
तत्र लोष्टानि सन्दह्यात् सान्तरं क्रमशो न्यसेत् ॥ २८ ॥
काष्ठैः पलाल[१]भाराद्यैराचिता स्यान्निरन्तरा ।
बहिराच्छादयेत् सम्यङ्मृत्सया च विलेपयेत् ॥ २९ ॥
तन्मुखेष्वग्निभिमाधाय दशाहं पक्षमेव वा ।
संस्कृत्य ज्वलने शान्ते लोष्टानि पुनरुद्धरेत् ॥ ३० ॥
अथवान्यप्रकारेण लोष्टदाहो विधीयते ।
शुष्कचिञ्चादिशाखाभिरास्तीर्य सुमुहूर्तके ॥ ३१ ॥
इन्धनानि च विन्यस्य पलालानि च विन्यसेत् ।
तस्मिन् लोष्टानि विन्यस्य पलालैश्छादयेत् पुनः ॥ ३२ ॥
पलालाभासकैः पश्चाद् व्रीह्याभासैस्तुषैस्तथा ।
आच्छाद्याद्भिरथासिञ्चेच्छाखां प्रज्वालयेत् पुनः ॥ ३३ ॥
उद्धृत्य ज्वलने शान्ते गेहमाच्छादयेद् बुधः
नीव्रलोष्टानि विन्यस्य तुर्यश्राण्यपि विन्यसे[२]त् ॥ ३४ ॥
व्द्यश्राणि विन्यसेत् पश्चादेवमेव पुनः पुनः ।
क्रूरलोष्टानि विन्यस्य[३] यथाशोभं यथामति ॥ ३५ ॥
कोणपारावतं न्यस्य कोणलोष्टानि विन्यसेत् ।
पार्श्वयोः पुटलोष्टानि ऊर्ध्वलोष्टानि विन्यसेत् ॥ ३६ ॥