गर्तकोणानि विन्यस्य कालादीनि यथोचितम् । सुमुहूर्ते सुनक्षत्रे स्तूप्याच्छादनकं न्यसेत् ॥ ३७ ॥ तक्षकाणां यथोदिष्टा पूजा तेषां तथैव च । एवं देवालयादौ च हाटकादिभिरेव वा ॥ ३८ ॥ स्वर्णादिलोष्टमानं तु ज्ञेयं द्रव्यानुसारतः ॥ ३८३ ॥ इति वास्तुविद्यायां मृल्लोष्टलक्षणं नाम षोडशोऽध्यायः ।
वा[१]स्तुविद्या समाप्ता । शुभं भूयात् ॥