पृष्ठम्:वास्तुविद्या.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशोऽध्यायः । तिर्यङ्मूलाग्रयोगेन मध्याग्रेण युतं लिखेत् । परित्याज्यं बहिर्भागं तद् भवेत् क्रूरसाधनम् ॥ २० ॥ द्यश्रव्यासेsब्धिसंभक्त त्रीणि सूत्राणि पातयेत् । मुलात् ताराङ्घ्रिकं नीत्वा तिर्यक् सूत्रं निपातयेत् ॥ २१ ॥ तिर्यङ्र्मूलाग्रयोगेन पार्श्वस्थाम्रयुतं लिखेत् । पार्श्वस्थाग्रं समारभ्य तिर्यमध्य युतिर्युतम् ॥ २२ ॥ कर्णसूत्रबहिर्भागे त्यक्तं स्यौद् ह्यश्रसाधनम् । भसितोहूलितां कृत्वा फलकामपि साधनम् ॥ २३ ॥ मृत्स्नां प्रस्तारयेत् तस्यां यथोक्तबहलां पुनः । सन्ताड्य च समां कृत्वा तस्यां विन्यस्य साधनम् ॥ २४ ॥ पर्व कृत्वा तद्ग्रेऽथ कीलैर्वेण्वादिनिर्मितैः । छिन्यात् पार्श्वं च मूलं च सर्वत्रैवं विधिः स्मृतः ॥ २५ ।। ईषच्छुष्काणि चोद्धृत्य पश्चात् सन्ताडयेत् स्वयम् । ऊर्ध्वलोष्ट कोणलोष्टं वे सन्ताङ्य कारयेत् ॥ २६ ॥ कोणपारावतं कुर्यात् स्तूप्याच्छादनकानि च । अनातपेषु शुष्काणां दाहं कुर्याद् यथोचितम् ॥ २७ ॥ १. 'त्यज्य व’ छ. पाठः. २. 'येत् । तिर्यङ्मूला' घ, ङ. पाठ:. २. ‘गगुलयो' ग. पाठः, ४. 'त' ग. छ. पाठ ५. 'क्रं' ग. घ. ड. पाठ: १. 'कालपाकेन शु’ घ, ङ. छ. पाठः- ‘युतीयुतम्' इति स्यात् ।