सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
षोडशोऽध्यायः ।

तिर्यङ्मूलाग्रयोगेन मध्याग्रेण युतं लिखेत्
परित्या[]ज्यं बहिर्भागं तद् भवेत् क्रूरसाधनम् ॥ २० ॥
व्द्यश्रव्यासेऽब्धिसंभक्ते त्रीणि सूत्राणि पातये[]त् ।
मूलात् ताराङ्घ्रिकं नीत्वा तिर्यक् सूत्रं निपातयेत् ॥ २१ ॥
तिर्यङ्मू[]लाग्रयोगेन पार्श्वस्थाप्रयुतं लिखेत् ।
पार्श्वस्थाग्रं समारभ्य तिर्यङ्भध्य युतिर्युतम् ॥ २२ ॥
कर्णसूत्रबहिर्भागे त्यक्तं स्या[]द् द्व्यसाधनम् ।
भसितोद्धूलितां कृत्वा फलकामपि साधनम् ॥ २३ ॥
मृत्स्नां प्रस्तारयेत् तस्यां यथोक्तबहलां पुनः ।
सन्ताड्य च समां कृत्वा तस्यां विन्यस्य साधनम् ॥ २४ ॥
पर्व कृत्वा तदग्रेऽथ कीलैर्वेण्वादिनिर्मितैः ।
छिन्द्यात् पार्श्र्वै च मूलं च सर्वत्रैवं विधिः स्मृतः ॥ २५ ।।
ईषच्छुष्काणि चोद्धृत्य पश्चात् सन्ताडयेत् स्वयम् ।
ऊर्ध्वलोष्टं कोणलोष्टं व[]क्रं सन्ताड्य कारयेत् ॥ २६ ॥
कोणपारावतं कुर्यात् स्तूप्याच्छादनकानि च ।
[]नातपेषु शुष्काणां दाहं कुर्याद् यथोचितम् ॥ २७ ॥


  • 'युतीयुतम्'इति स्यात्।

  1. 'त्यज्य व' छ. पाठः.
  2. 'येत् । तिर्यङ्मूला' घ, ङ. पाठ:.
  3. 'गङ्गुलयो' ग. पाठः.
  4. 'त' ग. छ. पाठः.
  5. 'क्रं' ग, घ, ङ. पाठः.
  6. 'कालपाकेन शुद्ध घ, ङ. छ. पाठ:.