पृष्ठम्:वास्तुविद्या.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां आयाममूर्ध्वलोष्टस्य द्वादशाङ्गुलमिष्यते । तन्त्रिभागैकविस्तारं षड्यवं बहलं विदुः ॥ १० ॥ पुटाख्यगर्तकोणानां बहलं नीत्रलोष्टवत् । आयामं वसुमात्रं स्याद् विस्तारमथ कथ्यते ॥ ११ ॥ युगाङ्गुलं पुटामूलं तदग्रं सार्धमात्रकम् । मूलं तु गर्तकोटीनां सार्धाङ्गुलमुदाहृतम् ॥ १२ ॥ चतुरङ्ङ्गुलमग्रं स्यादाकारं क्रूरलोष्टवत् । अष्टाङ्गुलं कोणमूलमग्रं सार्धाङ्गुलं विदुः ॥ १३ ॥ नीप्रादीनां च पञ्चानां भेदः कीलादिकं त्रयम् । स्वस्खतारार्धविस्तारं कीललोष्टमुदाहृतम् ॥ १४ ॥ क्रूरयश्रायताश्राणामायामं वसुमात्रकम् । विस्तारं द्व्यङ्गुलं प्रोक्तं बहलं त्रियवं मतम् ॥ १५ ॥ मूलतारार्धविस्तारं कृशाग्रमिति कीर्तितम् । अग्रतारार्धमूलं यत स्थूलाग्रं तदुदाहृतम् ॥ १६ ॥ मूलबाहल्यतोऽप्यर्थं सर्वेषामग्रमिष्यते । सर्वत्र तुल्यबहलमूर्ध्वलोष्टमुदाहृतम् ॥ १७ ॥ अथ दारुमयं लोष्टमुक्तलक्षणसंयुतम् । कृत्वा चाङ्गुलिवाहल्यं सर्वेषां साधनं तु तत् ॥ १८ ।। आमूलाग्रं विधातव्यं सूत्रं क्रूरस्य मध्यमे । मूलात् तारार्धकं नीला तिर्यक् सूत्रं समालिखेत् ॥ १९ ॥ १. 'स्या’ घ. ङ., ‘स्यार्धाय' छ. पाठः. ७४