सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ षोडशोऽध्यायः।

अथ वक्ष्यामि संक्षेपान्मृल्लोष्टानां च लक्षणम् ।
चिक्कणा पाण्डराख्या च सलोणा च विगर्हिता ॥ १ ॥
चतुर्थी ताम्रफुल्ला च[] कर्मयोग्या मृदिष्यते ।
तुषाङ्गारास्थिपाषाणकाष्ठशर्करलोष्टकैः ॥ २ ॥
वर्जिताः सूक्ष्मसिकतास्ताम्रफुल्लाभिधाश्र याः ।
ताः प्रक्षिप्यावटे मृत्स्त्रा जानुमात्रं जलं क्षिपेत् ॥ ३ ॥
आलोड्य पद्भिः संक्षोभ्य मर्दयेत् ताः पुनः पुनः ।
ततः क्षीरागशैरीषत्वक्क्वाथत्रिफलाम्बुभिः ॥ ४ ॥
मर्दयेन्मास[]मात्रं तु तत्कर्मकुशलैर्नरैः ।
लोष्टानि कल्पयेत् सम्यक् तेषां लक्षणमुच्यते ॥ ५ ॥
नीव्रलोष्टमूर्ध्वलोष्टं तुर्यश्रं क्रू[]रलोष्टकम् ।
द्व्यश्रलोष्टं कीललोष्टं कृशस्थूलाग्रलोष्टके ॥ ६ ॥
गर्तकोणं कोणलोंष्ट पुटलोष्टं तथैव च ।
लोष्टान्येकादशैतेषामायामादिकमुच्यते ॥ ७ ॥
नीव्रपट्यास्तु विस्तारं चतुरङ्गुलसंयुतम् ।
आयाम नीव्रलोष्टस्य कीर्तितं लोष्टवेदिभिः ॥ ८ ॥
विस्तारं द्व्यङ्गुलं कुर्याद् बहलं तारपादतः[]
तदर्धमग्रबाहल्यं सर्वेषां पर्ववच्छिरः ॥ ९ ॥


  1. 'ख्या' घ. पाठः.
  2. 'ष' ग. पाठ:.
  3. 'कूटलो' व. ड. पाठः .
  4. 'कम् ।' ग. पाठः.