पृष्ठम्:वास्तुविद्या.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षोडशोऽध्यायः । अथ वक्ष्यामि संक्षेपान्मुडोष्टानां च लक्षणम् । चिक्कणा पाण्डराख्या च सलोणा च विगर्हिता ॥ १ ॥ चतुर्थी ताम्रफुल्ला चे कर्मयोग्या मृदिष्यते । तुषाङ्गारास्थिपाषाणकाष्ठशर्करलोष्टकैः ॥ २ ॥ वर्जिताः सूक्ष्मसिकतास्ताम्रफुल्लाभिधाश्र याः । ताः प्रक्षिप्यावटे मृत्स्ना जानुमात्रं जलं क्षिपेत् ॥ ३ ॥ आलोड्य पद्भिः संक्षोभ्य मर्दयेत् ताः पुनः पुनः । ततः क्षीरागशैरीषत्वक्काथत्रिफलाम्बुभिः ॥ ४ ॥ मर्दयेन्मासमात्रं तु तत्कर्मकुशलैर्नरैः । लोष्टानि कल्पयेत् सम्यक् तेषां लक्षणमुच्यते ॥ ५ ॥ नीव्रलोष्टमूर्ध्वलोष्टं तुर्यश्रं क्रूरलोष्टकम् । ह्यश्रलोष्टं कीललोष्टं कृशस्थूलाग्रलोष्टके ॥ ६ ॥ गर्तकोणं कोणलोष्टं पुटलोष्टं तथैव च । लोष्टान्येकादशैतेषामायामादिकमुच्यते ॥ ७ ॥ नीत्रपट्यास्तु विस्तारं चतुरङ्गुलसंयुतम् । आयामं नीव्रलोष्टस्य कीर्तितं लोष्टवेदिभिः ॥ ८ ॥ विस्तारं यङ्गुलं कुर्याद् बहलं तारपादतैः । तदर्धमग्रबाहल्यं सर्वेषां पर्ववच्छिरः ॥ ९ ॥ १. 'ख्या' घ. पाठ:- २. 'प' ग. पाठः, ३. 'कूटलो' घ. ङ. पाठ: ४. 'कम् ।' ग. पाठ: