सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
वास्तुविद्यायां

चोरादिकेभ्यः परचक्रघाताद्
 रक्षन्त्विदं सद्म सुरासुरेभ्यः ॥ २८३ ॥
अगदा मनुजाः सधनाः सुखिनः
 प्रथिता यशसा च भवन्तु चिरम् ।
विजयी निखिलां पशुसस्यवतीं
 सुकृती नृपतिः पृथिवीमवतात् ॥ २९३ ॥
ब्रह्मा विष्णुः शङ्करश्चन्द्रसूर्यौ
 नन्दी लक्ष्मीर्वाग्वधूः स्कन्द इन्द्रः ।
भूमिर्देवाश्चर्षयश्च प्रजानां
 श्रीसौभाग्यारोग्यभोगान् कृषीरन् ॥ ३०३ ॥
भूयाद् ध्रुवा द्यौः पृथिवी च भूयाद्
 भवन्त्विमे भूमिधरा ध्रुवाच ।
ध्रुवं जगद् विश्वमिदं ध्रुवं स्याद्
 राजा त[]था धाम च तद् ध्रुवं स्यात् ॥ ३१३ ॥
ब्रह्मैव स्थपतिः साक्षाद् यजमानः स्वयं हरिः ।
आचार्यो भगवान् रुद्रः त्रिभिर्निष्पादितं तु यत् ॥ ३२३ ॥
तद् वास्तु स्थिरमेव स्याद् दृष्टादृष्टफलप्रदम् ॥ ३३ ॥
इति[] वास्तुविद्यायां भवनपरिग्रहो नाम
पञ्चदशोऽध्यायः ।



  1. 'विशां धा' छ. पाठः.
  2. 'ति भवनपरिग्रहं पञ्चदशोऽध्यायः ।
    'वास्तुविद्या समाप्ता ॥' छ. पाठः