पृष्ठम्:वास्तुविद्या.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ वास्तुविद्यायां चोरादिकेभ्यः परचक्रघाताद् रक्षन्त्विदं सद्म सुरासुरेभ्यः ॥ २८३ ॥ अगदा मनुजाः सधनाः सुखिनः प्रथिता यशसा च भवन्तु चिरम् । विजयी निखिलां पशुसस्यवतीं सुकृती नृपतिः पृथिवीमवतात् ॥ २९३ ॥ ब्रह्मा विष्णुः शङ्करश्चन्द्रसूर्यो नन्दी लक्ष्मीर्वाग्वधूः स्कन्द इन्द्रः । भूमिर्देवाश्चर्षयश्च प्रजानां श्रीसौभाग्यारोग्यभोगान् कृषीरन् ॥ ३०३ ॥ भूयाद् ध्रुवा द्यौः पृथिवी च भूयाद् भवन्त्विमे भूमिधरा ध्रुवाश्च । ध्रुवं जगद् विश्वमिदं ध्रुवं स्याद् राजा तथा धाम च तद् ध्रुवं स्यात् || ३१३ || ब्रह्मैव स्थपतिः साक्षाद यजमानः स्वयं हरिः । आचार्यो भगवान् रुद्रः त्रिभिनिष्पादितं तु यत् ।। ३२३ ॥ तद् वास्तु स्थिरमेव स्याद् दृष्टादृष्टफलप्रदम् ॥ ३३ ॥ इति वास्तुविद्यायां भवनपरिग्रहो नाम पञ्चदशोऽध्यायः । १ 'विशां घा' छ. पाठः- वास्तुविद्या समाप्ता ॥' छ. पाठः, २. 'ति भवनपरिग्रहं पञ्चदशोऽध्यायः