शिलया च मृदाप्यथवा तरुणा
रचयेदथ कुड्यमतीव दृढम् ।
तदिहोत्तर विस्तरतः सदृशं
बहलं कथितं तलिपादियुतम् ॥ १ ॥
स्वोत्सेधद[१]र्शनांशैकहीन मस्तकमेव तत् ।
कुड्यं कुर्याद् बहिर्भागं स्वान्तर्भागं[२] भवेत् समम् ॥ २ ॥
सुमुहूर्ते सुनक्षत्रे शुक्लपक्षे शुभोदये ।
स्नातोऽनुलिप्तः स्थपतिः कुर्यात् पञ्चाङ्गभूषणम् ॥ ३ ॥
विप्रेभ्यो दक्षिणां द[३]त्त्वा द्रव्यैः सन्तोष्य तक्षकान् ।
गणेश्वरं च सम्पूज्य पुण्याहं कारयेत् ततः ॥ ४॥
मुहूर्तदक्षिणां दत्त्वा वासोभिश्छन्नमुत्तरम् ।
कुड्येषु स्थाप्यतां सम्यगथवाङ्घ्रिषु विन्यसेत् ॥ ५ ॥
स्वस्तिसूक्तादिका[४]न् मन्त्रान् प्रजपेत् संस्पृशन् पुनः ।
संयुज्य चोत्तरैः पश्चात् परितश्चूलिकां न्यसेत् ॥ ६ ॥
कीलवेधैर्दृढीकृत्य तुलाभिर्योजयेद् बुधः ।
तुलानां विस्तरं कुर्यादुत्तरेण समादिकम् ॥ ७ ॥
तुलानां भूषणं कुर्यात् सूत्रपट्टिकया सदृक् ।
पङ्कजान्यत्र युग्मानि पङ्क्तयोऽयुग्मकाः स्मृताः ॥ ८॥