पृष्ठम्:वास्तुविद्या.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ वास्तुविद्यायां समतुर्यश्रकं वा स्याद् वृत्तं वा तद् यथोचितम् । स्तम्भपार्श्वात् कवाटस्य पार्श्वान्तं बेहलं स्मृतम् ॥ ३९ ॥ तावदर्गलबाहल्यमायामं तत्रयं स्मृतम् । बहलेन समं पुच्छं पादोनं वा प्रकीर्तितम् ॥ ४० ॥ समतुर्यश्रकं वा स्याद् वृत्तं वा तत् प्रकीर्तितम् । बहलस्य त्रिभागैकं नीत्वा तस्याग्रमूलयोः ॥ ४१ ॥ तदन्तरायतं गर्त कुर्यात् तत्चारमुच्यते । स्वबाहल्यत्रिभागैकं व्यासनिम्नं तथैव च ॥ ४२ ॥ अरमाभ्यन्तरे भागे पृष्ठे वा सुषिरं भवेत् । सुषिरे कीलवेधः स्याद् विमर्गलगत ॥ ४३ ॥ विन्यस्य तदधो भारं शङ्कुद्धितयमेव वा । तद्गर्ते विन्यसेत् सम्यग् वामभागेऽथ मातरम् ॥ ४४ ॥ ऊर्ध्वाधोभारयोः पद्भ्यां यथायोगं तथा न्यसेत् । पुत्रिकां दक्षिणे भागे चैकं चेद् वामतः स्मृतम् ॥ ४५ ॥ अरमा दक्षिणस्तम्भे तत्र स्याच्छृङ्खलैव वा । आयसैः कीलकैः सम्यग् विद्धं भारादिकं न्यसेत् ॥ ४६ ॥ इति वास्तुविद्यायां कवाटारविन्यासो चतुर्दशोऽध्यायः । १. 'कवलं' घ. ङ. पाठः, २. 'तम् ॥ ब' 'वृत्तं कु' घ. ङ. पाठः- ४. 'तारनि' ग. पाठः. ग. घ. ङ. पाठः- ५. 'रन्ध्रके' ग. पाठः..