समतुर्यश्रकं वा स्याद् वृत्तं वा तद् यथोचितम् ।
स्तम्भपार्श्वात् कवाटस्य पार्श्वान्तं ब[१]हलं स्मृतम् ॥ ३९ ॥
तावदर्गलबाहल्यामायामं तच्चयं स्मृतम् ।
बहलेन समं पुच्छं पादोनं वा प्रकीर्तितम् ॥ ४० ॥
समतुर्यश्रकं वा स्याद् वृत्तं वा तत् प्रकीर्तित[२]म् ।
बहलस्य त्रिभागकं नीत्वा तस्याग्रमूलयोः ॥ ४१ ॥
तदन्तरायतं ग[३]र्त कुर्यात् तत्तारमुच्यते ।
स्वबाहल्यत्रिभागैकं व्या[४]सनिम्नं तथैव च ॥ ४२ ॥
अरमाभ्यन्तरे भागे पृष्ठे वा सुषिरं भवेत् ।
सुषिरे कीलवेधः स्याद् विद्धमर्गलग[५] र्तके ॥ ४३ ॥
विन्यस्य तदधो भारं शङ्कुद्वितयमेव वा ।
तन्दर्ते विन्यसेत् सम्यग् वामभागेऽथ मातरम् ॥ ४४ ॥
ऊर्ध्वाघोभारयोः पद्भ्यां यथायोगं तथा न्यसेत् ।
पुत्रिकां दक्षिणे भागे चैकं चेद् वामतः स्मृतम् ॥ ४५ ॥
अरमा दक्षिणस्तम्भे तत्र स्याच्छृङ्खलैव वा ।
आयसैः कीलकैः सम्यग् विद्धं भारादिकं न्यसेत् ॥ ४६ ॥
इति वास्तुविद्यायां कवाटद्वारविन्यासो नाम
चतुर्दशोऽध्यायः ।