पृष्ठम्:वास्तुविद्या.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशोऽध्यायः । पादोनं वा तदष्टांशादेकं तत्तारमेव च । तारा बहलं कुर्यात् खण्डौ बाहल्यतुल्यकौ ॥ २९ ॥ मूलखण्डः समाख्यातः स्वव्याससदृशायतः । अर्ध वा पादहीनं वाप्यग्रखण्ड्यायतं भवेत् ॥ ३० ॥ अरमाबहलायामं तत्पुच्छं कथितं बुधैः । एकं वा स्यादुपडारकवाटमिति केचन ॥ ३१ ॥ द्वारतारं कवाटस्य बहलद्वयसंयुतम् । मूलाग्रयोर्वामभागे रङ्गवादद्वयं भवेत् ॥ ३२ ॥ आयतं भारवह्नयेकम भारस्य कीर्तितम् । अस्य खण्डी भवेदेका मूलाग्रौ भारवत् स्मृतौ ॥ ३३ ॥ गर्तशङ्कुच कर्तव्यो वितस्त्यायत एव सः । कवाटबहलडिमबहलव्यास (मे?ए) व च ॥ ३४ ॥ विभजेदूर्ध्वदेशेन द्विधा चैकतरे पदे । पदायतव्यासमध्यन्यस्तकर्किभ्रमेण च ॥ ३५ ॥ गर्त वृत्तं पदे कुर्याद् रङ्गपादार्धनिम्नकम् । अष्टाश्रं च ततः कार्य हस्तिपृष्ठाभमेव वा ॥ ३६॥ अस्यारमार्धभाराभा कीर्तिता शिल्पकोविदः । व्यासं कवाटबहलत्रितयं वा प्रकीर्तितम् ॥ ३७ ॥ आयामं तवयं प्रोक्तं व्यासेन विभजेत् पुनः । त्रिधा तन्मध्यमे भागे कियेतार्गलरन्धकम् ॥ ३८ ॥ १. 'अर्ध वा पादहीनं वाप्यष्टांशादेकसतार' घ ङ. पाठ, २. 'च्छेषं क' घ. ङ. पाठ:.