पृष्ठम्:वास्तुविद्या.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां युज्यतां द्वारपादाभ्यां प्रतेरुर्ध्वे ऽर्धपाणिना । शुलकीलादिवेधैश्चै करोतु दृढतां पुनः ॥ १९ ॥ एवं कुर्यादधोभारं मध्यखण्डिविवर्जितम् । पदमाद्यं परित्याज्यं द्वितीये चावटद्वयम् ॥ २० ॥ रङ्गपादप्रमाणेन वर्तुलं चार्धनिम्नकम् । पट्टिकाचतुरंशैकभागं नीत्वाथ पार्श्वतः ॥ २१ ॥ मातृसंज्ञकवाटस्य सूत्रमन्तर्निपातयेत् । प्रतिबाहल्यसदृशं नीत्वा मूलाग्रयोः पृथक् ॥ २२ ॥ अर्ध वा पादहीनं वा मूले तन्मध्यसूत्रके । ऊर्ध्वाग्रमेव तन्मध्ये विन्यसेत् सूत्रपट्टिकाम् ॥ २३ ॥ सरोजकोरकाकारैः कीलैर्वा पुष्पसन्निभैः । पट्टिकां पद्ममध्येषु विद्धैः कुर्याच्च निश्चलाम् ॥ २४ ॥ द्वारीयामशरांशैकमरमायाममीरितम् । युगवह्नयेकभागं वा षट्पञ्चैकांशविस्तरम् ॥ २५ ॥ व्यासपादोनम वा समं वा बहलं विदुः । अधोभारसमाकारा कीर्तिता शिल्पवित्तमैः ॥ २६ ॥ तदायामेऽब्धिसंभक्ते त्यजेदेकैकमग्रयोः । मध्ये निधाय द्वितयं तत्सन्धावर्गलस्य च ॥ २७ ॥ कुर्याच्च कबलीं तत्र ह्यर्गलस्य प्रमाणतः । कवाटव्याससदृशमर्गलस्यायतं विदुः ॥ २८ ॥ १. 'स्तु' घ. ङ. पाठः. २. 'घापयेत्' ग. पाठः. ३. 'रोत्सेधश' घ. ङ. पाठ..