पृष्ठम्:वास्तुविद्या.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्दशोऽध्यायः । कवाटद्वितयं कुर्यान्मातृपुत्र्यभिधं बुधः । द्वारतारे चतुष्पञ्चषट्सप्ताष्टविभाजिते ॥ १ ॥ एकांशः सूत्रपट्टिः स्यात् समं वा बहलं भवेत् । अर्धे वा पादहीनं वा बहलं परिकीर्तितम् ॥ २॥ द्वारायामसमायामा कार्या युग्माश्च पङ्ख्यः । अश्व्यादिवेश्मपैर्यन्ताः पयः परिकीर्तिताः ॥ ३ ॥ अग्न्याद्यत्यष्टिसंख्यान्तान्यम्बुजान्यग्रसन्धिषु । तारार्धमुच्छ्रयं तेषां त्रिभागैकं तु वा भवेत् ॥ ४ ॥ बहलार्धं तु वा कुर्यादुच्छ्रये दर्शनांशिते । इथंशं तदूर्ध्वपट्टं स्यादन्तरि त्रिभिरंशकैः ॥ ५ ॥ दलाष्टकयुतं चापि वृत्तं केसरसंयुतम् । अधःपट्टं तदेकांशं तुर्यश्रं तत्समोच्छ्रयम् ॥ ६ ॥ मूलाग्रैपङ्कजे कार्ये ह्यर्धवृद्धविचित्रिते । पचयश्च निरश्राश्च मुक्तादामविचित्रिताः ॥ ७ ॥ पट्टिकाचतुरंशैकयुतद्वारार्धविस्तृतम् । स्वबाहल्येन सहितं कवाटस्य समीहते ॥ ८ ॥ १. 'त्या' घ. ङ. पाठः २. 'कृत्यन्ता' घ. ङ. पाठः. ३. 'ता' ग. पाठः, ४. 'त्ता' ग. पाठ: ६. 'ग्रं' घ. ङ. 13:. ७. 'डूं' घ. ङ, पाठः, ५. 'ता।' ग. पाठ.. ८. 'तौ ।' घ, ङ, पाठः